वाचस्पत्यम्
मण्डलिन् || पु० मण्डलं कुण्डलनमस्त्यस्य इनि । १ सर्पे २ वि- डाले शब्दमाला । ३ जाहके (खट्टाश) हेमच० । ४ वट- वृक्षे त्रिका० ५ गोनससर्पे च राजनि० ।
शब्दकल्पद्रुमः
मण्डली || [न्] पुं, (मण्डलं कुण्डलनं कुण्डला कारेणशरीरवेष्टनमस्यास्तीति । मण्डल + इनिः । सर्पः । इति त्रिकाण्डशेषः ॥ विडालः । इति शब्दमाला ॥ जाहकः । इति हेमचन्द्रः ॥ खट्टाश इति भाषा ॥ वटवृक्षः । गोनाश- सर्पः । इति राजनिर्घण्टः ॥