संस्कृत-शब्दकोशः

मण्डलिन् मण्डलेश

मण्डली

शब्दकल्पद्रुमः

मण्डली || स्त्री (मण्डलमस्त्यस्या इति । अर्श आद्यच् । गौरादित्वात् ङीष् ।)
दूर्व्वा । इति हारावली ॥ (स्त्री, गुडूची ॥ तत्पर्य्यायो यथा, “गुडूची मधुपर्णी स्यादमृतामृतवल्लरी । छिन्ना च्छिन्नरुहा च्छिन्नोद्भवा वत्सादनीति च ॥ जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली । चक्रलक्षणिकाधीरा विशल्या च रसायनी ॥ चन्द्रहासी वयस्था च मण्डली देवनिर्म्मिता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: