शब्दकल्पद्रुमः
मण्डूकपर्णी || स्त्री (मण्डूकपर्ण । गौरादित्वात् ङीष् ।)
मञ्जिष्ठा ॥ (यथास्या पर्य्यायः । “मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ॥ रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका । भण्डीतकी च गण्डीरी मञ्जूषा वस्त्ररञ्जिनी ॥”)
ब्राह्मणी इति मेदिनी । णे, ११५ ॥ आदित्य, भक्ता । इति राजनिर्घण्टः ॥ ओषधि- विशेषः । थुल्कुडी इति भाषा । तत्पर्य्यायः । भेकी २ मण्डूकी ३ मूलपर्णी ४ । इति रत्न- माला ॥ मण्डूकपर्णिका ५ । अस्या गुणाः । मण्डूकपर्णिका लघ्वी स्वादुपाका रसा हिमा । (महौषध्यर्थे पर्य्यायान्तरं यथा, —
“मण्डूकपर्णी माण्डूकी त्वाष्ट्री दिव्या महौषधी ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ तथाचास्या गुणाः ॥ कषाया तु हिता पित्ते स्वादुपाकरसा हिमा । लम्बी मण्डूकपर्णी तु तद्वद्गोजिह्विका मता ॥ इति सुश्रुते सूत्रस्थाने ४६ अध्याये ।)
पाठान्तरम् । मण्डूकपर्णिका लघ्वी रूक्षा वातविबन्धनुत् । इति राजवल्लभः ॥