संस्कृत-शब्दकोशः

मण्डूरवज्र मण्डोदक

मण्डूरवटक

वाचस्पत्यम्

मण्डूरवटक ||‍ पु० चक्रदत्तोक्ते मण्डूरादिघटिते वटकभेदे “त्र्यूषणं त्रिफलामुस्तं विडङ्गचव्यचित्रकौ । दार्वी त्व- ग्माक्षिको धातुर्ग्रन्थिकं देवदारु च । एषां द्विपलि- कान् भागांश्चूर्णं कृत्वा पृथक् पृथक् । मण्डूरं द्विगुणं चूर्णं शुद्धमञ्जनसन्निभम् । मूत्रे चाष्टगुणे पक्त्वा तस्मिंस्तु प्रक्षिपेत् ततः । उडुम्बरसमान् कुर्याद्वटकां- स्तान् यथाग्नितः । उपयुञ्जीत तक्रेण सात्म्यं जीर्णे च भोजनम् । मण्डूरवटका ह्येते प्राणदाः पाण्डुरोगिणाम् । कुष्ठान्यजवकं शोथमुरुस्तम्भकफा मयान् । अर्शांसि कामलां मेहान् प्लीहानं ग्राह- वच्च ते । ग्राहयन्त्यष्टगुणितं मूत्रं मण्डूरचूर्णतः ।”



Correction: