वाचस्पत्यम्
मत्क || पु० मद—क्विप् स्वार्थे क । १ मत्कुणे (छारपोका) ममेदम् कन् मदादेशः । २ मत्सम्बन्धिनि “नैतन्मतं मत्कमिति ब्रुवाणः” भट्टिः ।
शब्दकल्पद्रुमः
मत्कः || पुं, (माद्यतीति । मद् + क्विप् । ततः स्वार्थे कन् ।)
मत्कुणः । इति शब्दमाला ॥ (मम अयम् । अस्मद् शब्दादिदमर्थे कन् । मदादेशश्च ।)
मत्सम्बन्धिनि त्रि । इति व्याक- रणम् ॥ (यथा, भट्टिः । ३ । ३२ । “नैतन्मतं भत्कमिति ब्रुवाणः सहस्रशोऽसौ शपथानशप्यत् ॥”)