संस्कृत-शब्दकोशः

मत्क मत्कुणा

मत्कुण

वाचस्पत्यम्

मत्कुण ||‍ पु० मद—क्विप् कुणति कुण—अच् कर्म० । १ कीटभेदे (छारपोका) राजनि० । २ निर्दन्तगजे ३ श्मश्रुशून्यपुरुषे ४ नारिकेले मेदि० ५ जङ्घात्राणे हेम० । ६ अजातलोम- भगायां स्त्रियां स्त्री शब्दर० ।


शब्दकल्पद्रुमः

मत्कुणः || पुं, (माद्यतीति । मद् + क्विप् कुणति इति कुण् + क । ततः । मच्चासौ कुणश्चेति ।)
कीटविशेषः । छारपोका इति भाषा ॥ तत्- पर्य्यायः । रक्तपायी २ रक्ताङ्गः ३ मञ्च- काश्रयः ४ । इति राजनिर्घण्टः ॥ उद्दंशः ५ । (यथा, शिशुपालवधे । १४ । ६८ । “मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः । गच्छतः स्म मधुकैटभौ विभो- र्यस्य नैद्रसुखविघ्नतां क्षणम् ॥”)
निर्व्विषाणहस्ती । निःश्मश्रुपुरुषः । माकुन्द्या इति भाषा ॥ नारिकेलः । इति मेदिनी । ने, ७० ॥ जङ्घात्राणम् । इति हेमचन्द्रः । ४ । २७५ ॥



Correction: