वाचस्पत्यम्
मत्तकाशि(सि)नी || स्त्री मत्तेव क्षीवेव काशते कसति गच्छति वा णिनि पृषो० ह्रस्वः । उत्तमयोषिति अमरः ।
शब्दकल्पद्रुमः
मत्तकाशिनी || स्त्री उत्तमस्त्री । इत्यमरः । २ । ६ । ४ ॥ मत्त इव क्षीव इव कसति गच्छति मत्तकासिनी कस ज गतौ ग्रहादित्वाण्णिन् दन्त्यमध्या । मत्तेव काशते भाति मत्तकाशिनी तालव्यमध्यापि । इति भरतः ॥ (यथा, महाभारते । १ । १७३ । ३९ । “न तासां सदृशीं मन्ये त्वामहं मत्त- काशिनि ! ।”)