वाचस्पत्यम्
मत्तवारण || पु० कर्म० । १ मत्तहस्तिनि । मत्तं वारयति वृ—णिच् ल्यु । २ प्रासादवरण्डे न० (वारेण्डा) हेमच० । ३ पूगचूर्णे शब्दमा० ।
शब्दकल्पद्रुमः
मत्तवारणं || क्ली (मत्तं वारयतीति । वृ + णिच् ल्युः ।)
प्रासादवीथीनां वरण्डः । कोठार वाराण्डा इति भाषा ॥ (यथा, कुट्टनीमते । ९ । “दिव्यधराधरभूरिव राजति मत्तवारणोपेता ॥” “प्रासादवीथीनां वरण्डकः ।” इति तट्टीका ॥)
अपाश्रयः । प्राङ्गणावरणम् । इति हेमचन्द्रः । ४ । ७८ । विश्वश्च ॥ प्रासादवीथीनां कुण्डवृक्ष- वृतिः । कुन्दवृक्षवृति इति च पाठः । इति मेदिनी । णे, ११४ ॥ पूगचूर्णः । इति शब्दमाला ॥
शब्दकल्पद्रुमः
मत्तवारणः || पुं, (वार्य्यते संयम्यते शृङ्खलादिभिः इति वारणः । वृ + णिच् कर्म्मणि ल्युट् । मत- श्चासौ वारणश्चेति ।)
प्रक्लिन्नकटकुञ्जरः मत्तहस्ती । इति मेदिनी । णे, ११४ । हेम- चन्द्रश्च । ४ । ७८ ॥