शब्दकल्पद्रुमः
मत्सरी || [न्] त्रि, (मत्सरोऽन्यशुभद्वेषोऽस्त्यस्येति मत्सरः + इनिः ।)
अन्यशुभद्वेष्टा । तत्पर्य्यायः । कर्णेजपः २ दुर्ज्जनः ३ पिशुनः ४ सूचकः ५ नीचः ६ द्बिजिह्वः ७ खलः ८ । इति हेम- चन्द्रः ॥ (यथा, मनौ । २ । २०१ । “परिभोक्ता कृमिर्भवति कीटोभवति मत्सरी ॥”)