वाचस्पत्यम्
मत्स्यकरण्डिका || स्त्री मत्स्यानां करण्डिकेवाधारः । (खा- लुइ) मत्स्यरक्षणाधारे पात्रभेदे जटा० ।
शब्दकल्पद्रुमः
मत्स्यकरण्डिका || स्त्री (मत्स्यस्यकरण्डिकेव)
मत्स्य- रक्षणपात्रम् । खालुइ इति भाषा । तत्पर्य्यायः । मत्स्यधानी २ कुवेणी ३ । इति जटाधरः ॥