वाचस्पत्यम्
मत्स्य || पु० मद—स्यन् । (माछ) १ मीने २ जलचरभेदे स्त्रियां ङीष् यलोपः मत्सी । तद्भेदगुणादि भावप्र० उक्तं यथा तत्र मत्स्येषु रोहितस्य “रक्तोदरो रक्तमुखो रक्षाक्षो रक्तपक्षतिः । कृष्णपुच्छो झषश्रेष्ठो रोहितः कथितो बुधैः । रोहितः सर्वमत्स्यानां वरो वृष्योऽर्दितार्त्ति- जित् । कषायानुरसः स्वादुर्वातघ्नो नातिपित्तकृत् । ऊर्ध्वजत्रुगतान् रोगान् हन्याद्रोहितमुण्डकम् ।” (सिलन्धा) “सिलन्धः श्लेष्मलो बल्यो विपाके मधुरो गुरुः । वातपित्तहरो हृद्य आमवातकरश्च सः ।” (अथ भांगन) “भङ्कुरो मधुरः शीतो वृष्यः श्लेष्मकरो गुरुः । विष्टम्भजनकश्चापि रक्तपित्तहरः स्मृतः” । (मोमाचिका) “मोचिका वातहृद्बल्या वृंहणी मधुरा गुरुः । पित्तहृत् कफकृद्रुच्या वृष्या दीप्ताग्नये हिता । (वोदाल) “पाठीनः श्लेष्मलो वल्यो निद्रालुः पिशिताशनः । दूषयेद्रुधिरंपित्तकुष्ठरोगं करोति च ।” (अथ सीङ्गी) “शृङ्गी तु वातशमनी स्निग्धा श्लेष्मप्रकोपनी । रसे तिक्ता कपाया च लघ्वी रुच्या स्मृता बुधैः ।” (अथ हीलसा) “इल्लसो मधुरः स्निग्धो रोचनो वह्निवर्द्धनः । पित्तहृत्- कफकृत्किञ्चिल्लघुर्वृष्योऽनिलापहः ।” (अथ सौल) “शष्कुली ग्राहिणी हृद्या मधुरा तु वरा स्मृता ।” अथ (गर्गरा) “गर्गरः पित्तलः किल्लिद्वातजित् कफकोपनः ।” अथ (कवै) “कविका मधुरा स्निग्धा कफघ्नी रुचिकारिणी । किञ्चित्पित्तकरी वातनाशिनी वह्निवर्द्धिनी ।” अथ- (वर्मी) “वर्मिमत्स्यो हरेद्वातं पित्तं रुचिकरो राधुः ।” अथ (दण्डारी) “दण्डमत्स्यो रसे तिक्तः पित्तरक्तं सफं हरेत् । वातसाधारणः प्रोक्तः शुक्रलो बलवर्द्धनः ।” (व्यथ आडि) “एरङ्गो मधुरः स्निग्धो विष्टम्भी शीतलो लवुः ।” (अथ पावता) “महाशफरसंज्ञस्तु तिक्तः पित्त- कफापहः । शिशिरो मधुरो रुच्यो वातसाधारणः स्मृतः ।” अथ (गरुइ) “गरघ्नी मधुरा तिक्ता तुवरा बातपित्तहत् । कफघ्नी रुचिकृल्लध्वी दीपनी बलवीर्य्य- क्वत् ।” अथ (मागुर) “मद्गुरो वातहद्वल्यो वृष्यः कफकरो लघुः । अथ टेङ्गरा “सपादमत्स्यो कत् श्लेष्मक्षयकरश्च सः । वातपित्तकरश्चापि परमो मतः ।” अथ शफरी (पोठी) “प्राष्ठी तिक्ता कटुः स्यादुः शुक्रघ्नी कफवातजित् । स्तिग्धास्य कण्ठरीगघ्नी रोचनी च लघुः स्मृतः ।” अथ क्षुद्र- मत्स्याः “क्षुद्रा मत्स्याः स्वादुरसाः दोषत्रयविनाशनाः । लथुपाका रुचिकरा बलदास्ते हिता मताः ।” अथा- तिक्षुद्रमत्स्याः “अतिसूक्माः पुंस्त्वहरा रुच्याः कासा- निलापहाः ।” अथ मत्स्याण्डः “मत्स्यगर्भो भृशं वृष्यः स्निग्धः पुष्टिकरो लघुः । कफमेहप्रदो बल्यो ग्लानिकृन्मेहनाशनः ।” अथ (शुक्टी) “शुष्कमत्स्याः नवा बल्याः द्जराः विड्विबन्धिनः ।” अथ दग्ध- मत्स्याः “दग्धमत्स्यो गुणैः श्रेष्ठः पुष्टिकृद्बलबर्द्धनः । अथ कूपजादिमत्स्यगुणाः “कौपमत्स्याः शूक्रमूत्र कुष्ठश्लेष्म विवर्द्धनाः । सरोजा मधुराः स्निग्धा बल्या वातविनाशंनाः । नादेया वृंहणा मत्स्या गुरवोऽनिल- नाशनाः । रक्तपित्तकरा वृष्याः स्निग्धोष्णाः स्वल्प- वर्चसः । चौञ्जाः पित्तकराः स्निग्धा मधुरा लघबो हिमाः । ताडागा गुरवो वृष्याः शीतलाः बल- मूत्रदाः । ताडागावक्षिप्तजाताः बलायुर्मतिदृक्कराः ।” चथर्त्तुविशेषे मत्स्यविशेषगुणाः “हेमन्ते कूपजा मत्स्याः शिशिरे सारसा हिताः । वसन्ते ते तु नादेया ग्रीष्मे चौञ्जसमुद्भवाः । तडागजाता वर्षासु तास्यपथ्या नदी- भवाः । नैर्झराः शरदि श्रेष्ठा विशेषोऽवसुदाहृतः ।” तद्भक्षणनिषेधादिकम् “यो यस्य मांसमश्नाति स तन्मांसाद उच्यते । मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान् विवर्जयेत्” मनुः । “जलस्थलचरा ये च प्राणिनस्तान् मृतानपि । न भक्षेन् मानवो ज्ञानी हन्ता तेषां मवेन्नहि । हत्वा हत्वा तु मत्स्याशी सर्वेषां यो विशेषतः । मांसादः प्राणिनां गोऽपि तस्मान् मत्स्यं परित्यजेत्” । पाद्मोत्तरखण्डे १०५ अ० । वर्जनीया मत्स्या यथा । “शृणु देवि! प्रवक्ष्यामि मांसभेदान् निवोध मे । नादेयं तिक्तकमठं पशुं शृङ्गिणमेव च । गोमीनं चक्रशकुलं वडालं राघवं तथा । वामीनं चलकर्णञ्च सचक्रं चेङ्गमेव च । भूबिलञ्चानिरुद्धञ्च गाङ्गेयानि विवर्जयेत्” मत्स्यंसूक्तमहातन्त्रम् । रविवारे मत्स्यभक्षणे निषेधो यथा “आमिषं रक्तशाकश्च यो भुङ्क्ते च रवेर्दिने । सप्तजन्म भवेत् कुष्ठी दरिद्रश्चोपजायते” भविष्यपु० । “माषमामिषमांसञ्च मसूरं निम्बपत्रकम् । भक्षयेद् यो रवेर्वारे सप्तजन्मान्यपुत्रकः” ति० त० । “कार्त्तिके मत्स्य- भक्षणनिषेधो यथा “न मत्स्यं भक्षयेन्तांसं न कौर्म्यं गान्यदेव हि । चण्डालो जायते राजन्! कार्त्तिके मांसभक्षणात्” नारदीयपु० । माघवैशाखयोर्हविष्य ब्रह्मचर्य्यविधानात् मत्स्यभक्षणं नितरां निषिद्धमिति कृत्यतत्त्वम् । “नाभक्ष्यं नैवेद्यार्थे भक्ष्येष्वजामहिषी- क्षीरं वर्जयेत् पञ्चनखमत्स्यवराहमांसानिच” आह्नि० त० विष्णुसूत्रम् । जन्मतिथौ मत्स्यभक्षणनिषेधो यथा “आमिषं कलहं हिंसां वर्षवृद्धौ विकर्जयेत्” “भुङ्क्ते यस्तु निरामिषं स हि भवेज्जन्मान्तरे पण्डितः” ति० त० । शैवस्य मत्स्यभक्षणनिषेधो यथा “क्व मद्यं क्व शिवे भक्तिः क्व मांसं क्व शिवाचनम् । मत्स्यमांसरतानां वै दूरे तिष्ठति शङ्करः” काशीख० । विन्ध्यपर्वतस्य पश्चिमे मत्स्यभक्षणनिषेधो यथा “विन्ध्यस्य पश्चिमे भागे मत्स्यभुक् पतितो नरः” पुराणम् । कामतो मत्स्यभक्षणप्रायश्चित्तं यथा “मत्स्यांस्तु कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत्” अज्ञा- नतस्तदर्द्धम्” प्रा० वि० । मत्स्यभक्षणनिषेधे प्रतिप्रसवो यथा “मत्स्यान् सशल्कान् भुञ्जीत मांसं रौस्वमेव च । निवेद्य देवताभ्यश्च ब्राह्मणेभ्यश्च नान्यथा । शफसं सिंह- तुण्डञ्च तथा पाठीनरोहितौ । मत्स्यास्त्वेते समुद्दिष्टा भक्षणाय तपोधनैः । प्रोक्षितं भक्षयेदेषां मांसञ्च द्विज- काम्यया । यथाविधि नियुक्तश्च प्राणानामपि चात्यये” कौर्मे पु० १६ अ० । “पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । राजीवान् सिंहतुण्डांश्च सशल्कांश्चैव सर्वशः” मनुः । “अनिवेद्य न भोक्तव्यं मत्स्यं मांसञ्च यद्भवेत् । अन्नं विष्ठा पयो मूत्रं यद्विष्णोरनिवेदितम्” आ० त० । प्रेतश्राद्धे मत्स्यदानविधिर्यथा “सपिण्डीकरणं यावत् प्रेतश्राद्धानि षोडश । पक्वान्ने बैव कर्त्तव्यं साभिषेण द्विजातिभिः” श्राद्ध० त० । २ विराटदेशे पु० सोऽभिजनोऽस्य तस्य राजा वा अण् । मात्स्य प्रित्रादिक्रमेण तद्देशवासिनि तस्य नृपे च बहुषु अणो लुक् । ३ तद्देशवासिषु ब० व० । ४ मेषादितोद्वादशराशौ मीनराशौ । ५ भागवतः प्रथमावतारे तत्कथा मत्स्यपु० २ अ० । भा० व० १८७ अ० च । मत्स्यं भगवदवतारभेदमधिकृत्य कृतो ग्रन्थः अण् । मात्स्य महा- पुराणभेदे तत्प्रतिपाद्यविषयाश्च तत्रैव २९० अ० उक्ता यथा “सूत उवाच । एतद्वः कथितं सर्वं यद्क्तं विश्वरू- पिणा । मात्स्यं पुराणमखिलं धर्मकामार्थसाधनम् । यत्रादौ मनुसंवादो व्रह्माण्डकथनन्तथा । साङ्ख्यं शारीरकं प्रोक्तं चतुर्मुखमुखोद्भवम् । देवासुराणा मुत्पत्तिर्मारुतोत्पत्तिरेव च । मदनद्वादशी तद्वल्लोक- पालाभिपूजनम् । मन्वन्तराणामुद्देशो वैन्यराजाभि- वर्णनम् । सूर्य्याद्वैवस्वतोत्पत्तिर्बुधस्याममनं तथा । पितृवंशानुकथनं श्राद्धकालस्तथैव च । पितृतीर्थप्रवा- सश्च सोमोत्पत्तिस्तथैव च । कीर्त्तनं सोमवंशस्य ययाति- चरितं तथा । कार्त्तवीर्य्यस्य माहात्म्यं वृष्णिवंशानु- कीर्त्तनम् । भृगुशापस्तथा विष्णोर्दैत्यशापस्तथैव च । कीर्त्तनं पुरुषेशस्य वंशो हौताशनस्तथा । पुराण- कीर्त्तनं तद्वत् क्रियायोगस्तथैव च । व्रतं नक्षत्रसंख्याकं मार्कण्डशयनं तथा । कृष्णाष्टमीव्रतं तद्वद्रोहिणी चन्द्रसंज्ञितम् । तडागविधिमाहात्म्यं पादपोत्सर्ग एव च । सौभाग्यशयनं तद्वदगस्त्यव्रतमेव च । तथा- नन्ततृतीया तु रसकल्याणिनी तथा । आर्द्रा नन्द- करी तद्वद् व्रतं सारस्वतं पुनः । उपरागाभिषेकश्च सप्तमीस्नपनं पुनः । भीमाख्या द्वादशी तद्वदनङ्ग- शयनं तथा । अशून्यशयनं तद्वत्तथैवाङ्गारकव्रतम् । सप्तमीसप्तकं तद्वद्विशोकद्वादशी तथा । मेरुप्रदानं दशधा ग्रहशान्तिस्तथैव च । ग्रहस्वरूपकथनं तथा शिवचतुर्दशी । तथा सर्वफलत्थागः सूर्य्यवारव्रतं तथा । संक्रान्तिस्नपनं तद्वद्विभूतिद्वादशीव्रतम् । षष्टिव्रतानां माहात्म्यं तथा स्नानविधिक्रमः । प्रयागस्य तु माहात्म्यं सर्वतीर्थानुकीर्त्तनम् । पैलाश्रमफलं तद्वद्द्वीपलोकानुकीर्त्तनम् । तथान्तरिक्षचारश्च ध्रुव- माहात्म्यमेव च । भवनानि सुरेन्द्राणां त्रिपुरायोधनं तथा । पितृपिण्डदमाहात्म्यं मन्वन्तरविनिर्णयः । वज्रा- ङ्गस्य तु संभूतिः तारकोत्पत्तिरेव च । तारकासुरमा- हात्म्यं ब्रह्मदेवानुकीर्त्तनम् । पार्वतीसम्भवस्तद्वत् तथा शिवतपोवनम् । अनङ्गदेहदाहस्तु रतिशोकस्तथैव च । गौरीतपोवनं तद्वद्विश्वनाथप्रसादनम् । पार्वत ऋषि- संवादस्त्रथैवोद्वाहमङ्गलम् । कुमारसम्भवस्तद्वत् कुमार- विजयस्तथा । तारकस्य वधो घोरी नरसिंहोपवर्ण- नम् । पद्मोद्भवविसर्गस्तु तथैवान्धकघातनम् । वारा- णस्यास्तु माहात्म्यं नर्मदायास्तथैव च । प्रवरानुक्रम- स्तद्वत् पितृनाथानुकीर्त्तनम् । तथोभयमुखीदानं दानं कुष्णाजिनस्य च । तथा सावित्र्युपाख्यानं राजथर्मा- स्तथैव च । यात्रानिमित्तकथनं स्वप्नमाङ्गल्यकीर्न्त- नम् । वामनस्य तु माहात्म्यं तथैवादिवराहकम् । क्षीरोदमयनं तद्वत् कालकूटाभिशासनम् । प्रासाद- लक्षणं तद्वन्मण्डपानान्तु लक्षणम् । पुरुबंशे तु संप्रोक्तं भविष्यद्राजवर्णनम् । तुलादानादि बहुशो महादानानुकीर्त्तनम् । कल्पानुकीर्त्तनं तद्वद् ग्रन्थानु- क्रमणी तथा । एतत्पवित्रमायुष्यमेतत् कीर्त्तिविव- र्धनम् । एतत् पवित्रं कल्याणं महापापहरं शुभम् । अस्मात् पुराणादपि पादमेकं पठेत्तु यः सोऽपि विमुक्तपापः । नारायणाख्यं पदमेति नूनमनङ्ग- वद्दिव्यसुखानि भुङ्क्ते ।” तद्दानविधिः मत्स्यपु० “श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः । मत्स्यरूपी च मनवे नरसिंहोपवर्णनम् । अधिकृत्याब्रवीत् सप्तकल्पवृत्तमनुव्रताः! । तन्मानमिति जातीध्वं सहस्राणि चतुर्दश । विष्णवे हेममत्स्येन धेन्वा चै । समन्वितम् । यो दद्यात् पृथिवी तेन दत्ता भवति चाखिला” ।
शब्दकल्पद्रुमः
मत्स्यः || पुं स्त्री, (माद्यन्ति लोका अनेनेति । मद् + “ऋतन्यञ्जीति ।” उणा० । ४ । २ इति स्यन् ।)
स्वनामख्यातजलजन्तुः । माछ इति भाषा ॥ तत्पर्य्यायः । पृथुरोमा २ झसः ३ मीनः ४ वैसारिणः ५ अण्डजः ६ विसारः ७ शकली ८ । इत्यमरः । १ । १० । १७ ॥ शन्धली ९ झषः १० आत्माशी ११ संवरः १२ मूकः १३ जले- शयः १४ कण्टकी १५ शल्की १६ मच्छः १७ अनिमिषः १८ । इति शब्दरत्नावली ॥ शुङ्गी १९ । इति जटाधरः ॥ तस्य गुणाः । बृंहणत्वम् । गुरुत्वम् । शुक्रबर्द्धनत्वम् । बल्यत्वम् । स्निग्ध- त्वम् । उष्णत्वम् । मधुरत्वम् । कफपित्तकर- त्वम् । व्यायामाध्वरतदीप्ताग्नीनां पूजितत्वम् । वातरोगहरत्वञ्च ॥ * ॥
बृहन्मत्स्यगुणाः । गुरु- त्वम् । शुक्रलत्वम् । मलबद्धकारित्वञ्च ॥ * ॥
क्षुद्रमत्स्यगुणाः । लघुत्वम् । ग्राहित्वम् । ग्रहणीरोगे हितत्वञ्च ॥ * ॥
कृष्णमत्स्यगुणाः । लघुत्वम् । स्निग्धत्वम् । वातघ्नत्वम् । वह्निवर्द्धन- त्वञ्च ॥ * ॥
पाण्डरमत्स्यगुणाः । दोषलत्वम् । स्निग्धत्वम् । गुरुत्वम् । मलभेदित्वञ्च ॥ * ॥
क्वथितमत्स्यस्य अर्थात् पूतिमत्स्यस्य गुणः । दोषलत्वम् ॥ * ॥
शुष्कमत्स्यगुणौ । विष्ट- म्भित्वम् । दुर्ज्जरत्वञ्च ॥ * ॥
लवणभावित- मत्स्यगुणाः । कफपित्तकरत्वम् । सारकत्वम् ॥ सामुद्रमत्स्यगुणाः । लघुत्वम् । वृष्यत्वम् । मधु- रत्वम् । स्वल्पमलकारित्वञ्च । “सामुद्रा गुरवो वृष्याः स्निग्धोष्णा वात- नाशनाः ।” इति पाठान्तरम् ॥ * ॥
(तथास्य पर्य्यायाः गुणाश्च । “मत्स्यो मीनो विकारश्च उषो वैसारिणोऽण्डजः । शकुलः पृथुरोमा च स सुदर्शन इत्यपि ॥ रोहिताद्यास्तु ये जीवास्ते मत्स्याः परिकी- र्त्तिताः । मत्स्याः स्निग्धोष्णमधुरा गुरवः कफपित्तलाः ॥ वातघ्ना बृंहणा वृष्या रोचका बलवर्द्ध्वनाः । मद्यव्यवायसक्तानां दीप्ताग्नीनाञ्च पूजिताः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ “मत्स्या रोहितपाठीनकूर्म्मकुम्भीरकर्कटाः । शुक्तिशङ्खोड्रशम्बूकशफरीवर्म्मिचन्द्रिका ॥ चुलूकीनक्रमकरशिशुमारतिमिङ्गिलाः । राजीवाः चिलिचिमाद्याश्च ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ मत्स्यास्तु द्विविधा नादेयाः सामुद्राश्च । तत्र नादेयाः । रोहित-पाठीन-पाटला-राजीव- वर्म्मिगोमत्स्य-कृष्णमत्स्य-वागुञ्जार-मुरल- सहस्र-दंष्ट्रप्रभृतयो नादेयाः ॥ “नादेया मधुरा मत्स्या गुरवो मारुतापहाः रक्तपित्तकराश्चोष्णा वृष्याः स्निग्धाल्पवर्च्चसः ॥ कषायानुरसस्तेषां शष्पशैबालभोजनाः । सरस्तडागसम्भताः स्निग्धाः स्वादुरसाः स्मृताः । महाह्रदेषु बलिनः स्वल्पेऽम्भस्यबलाः स्मृताः ।” तिमितिमिङ्गिलकुलिशपाकमत्स्यनिरालक- नन्दिवारलकमकरगर्गरकचन्द्रकमहामीन- राजीवप्रभृतयः सामुद्राः ॥ “सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः । उष्णावातहरा वृष्या वर्च्चस्याः श्लेष्मवर्द्धनाः ॥ बलावहा विशेषेण मांसाशित्वात् समुद्रजाः । तेषामप्यनिलघ्नत्वाच्चौण्ट्यकौप्यौ गुणोत्तरौ ॥ स्निग्धत्वात् स्वादुपाकत्वात् तयोर्वाप्या गुणो- त्तराः । नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः । सरस्तडागजानान्तु विशेषेण शिरो लघु ॥ अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः । किञ्चिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु ते ॥ अधस्तद्गुरवो ज्ञेया मत्स्याः सरसिजाः स्मृताः । उरो विचरणात्तेषां पूर्ब्बमङ्गं लघु स्मृतम् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)
नादेयमत्स्यगुणाः । श्लेष्मलत्वम् । वृष्यत्वम् । मधुरत्वम् । अल्पमलभेदकत्वञ्च ॥ * ॥
सर- स्तडागभवमत्स्यगुणौ । स्निग्धत्वम् । स्वादुरस- त्वम् ॥ * ॥
महाह्रदभवमस्याः वलिनः । अल्प- जलभवाः अबलाः ॥ * ॥
दग्धमत्स्यगुणाः । गुरुत्वम् । वृष्यत्वम् । बृंहणत्वम् । बलवर्द्धनत्वञ्च ॥ तैललवणयुक्तदग्धमत्स्यगुणः । क्षीणशुक्रभग्न- जर्ज्जरितनित्यस्त्रीसेविक्षीणतेजसां हितकारि- त्वञ्च ॥ * ॥
पलालवेष्टितकर्द्दमलेपिताङ्गार- दग्धसलवणवेशवारपुरस्कृतसार्द्रककटुतैलसन्तो- लितमत्स्यगुणाः । स्वादुत्वम् । कफवातहरत्वम् । शुक्रलत्वम् । बलवर्द्धनत्वञ्च ॥ * ॥
शाकमत्स्याख्य- व्यञ्जनगुणाः । हृद्यत्वम् । वृष्यत्वम् । पुष्टिदत्वञ्च ॥ मत्स्यघण्टगुणाः । बलकरत्वम् । वातहरत्वम् । अतिशयरोचनत्वञ्च ॥ शिरसि खड्गकेशधारि- मस्यगुणाः । मुखप्रियत्वम् । हृद्यत्वम् । पुंस्त्व- घातकत्वञ्च । इति राजवल्लभः ॥ * ॥
अपि च । “निःशल्का निन्दिता मत्स्याः सर्व्वे शल्कयुता हिताः । वपुःस्थैर्य्यकरा वीर्य्यबलपुष्टिविवर्द्धनाः ॥ ह्रदकुल्याजलनिर्झरतडागवापीजलेषु येमत्स्याः । तेऽतिजडा नादेया यथोत्तरं लघुतरास्तु नादेयाः ॥ क्षाराम्बुमत्स्या गुरवो विदाहिनो विष्टम्भदास्ते लवणार्णवादिजाः । नानाश्रिताः स्वादुजलस्थिता अपि ज्ञेया जडास्तेऽपि तथाश्रिता इमे ॥” इति राजनिर्घण्टः ॥ अथ क्षुद्रमत्स्यगुणाः । “क्षुद्रमत्स्याः स्वादुरसा दोषत्रयविनाशनाः । लघुपाका रुचिकराः सर्व्वदा ते हिता मताः । अथातिक्षुद्रमत्स्यगुणाः । अतिसूक्ष्माः पुंस्त्वहरा रुच्याः कासानिलापहाः । अथ मत्स्याण्डगुणाः । मत्स्यगर्भो भृशं वृष्यः स्निग्धः पुष्टिकरो गुरुः । कफमेदप्रदो बल्यो ग्लानिकृन्मेहनाशनः ॥ अथ शुष्कमत्स्यगुणाः । शुष्कमत्स्या न बल्याः स्युर्दुर्जरा विड्विबन्धिनः ॥ अथ दग्धमत्स्यगुणाः । दग्धमत्स्यो गुणैः श्रेष्ठः पुष्टिकृद्वलवर्द्धनः ॥ अथ कूपजादिमत्स्यगुणाः । कूपमत्स्याः शुक्रमूत्रकुष्ठश्लेष्मविवर्द्धनाः । सरोजा मधुराः स्निग्धा बल्या वातविनाशनाः ॥ नादेया बृंहणा मत्स्या गुरवोऽनिलनाशनाः । रक्तपित्तकरा वृष्याः स्निग्धोष्णाः स्वल्पवर्च्चसः ॥ चौङ्याः पित्तहराः स्निग्धा मधुरा लघवो हिमाः । ताडागा गुरवो वृष्याः शीतला बलमूत्रदाः । ताडागवन्निर्झरजा बलायुर्मतिदृक्कराः ॥ अथ ऋतुविशेषे मत्स्यविशेषगुणः । हेमन्ते कूपजा मत्स्याः शिशिरे सारसा हिताः । वसन्ते ते तु नादेया ग्रीष्मे चौङ्यसमुद्भवाः ॥ तडागजाता वर्षासु तास्वपथ्या नदीभवाः । निर्झराः शरदि श्रेष्ठा विशेषोऽयमुदाहृतः ॥” इति भावप्रकाशः ॥ मत्स्योत्पत्तिकारणं यथा, —
“ततस्तु मित्रावरुणौ भ्रातरौ ब्रह्मचारिणौ । तन्तु देशं गतौ देवौ विचरन्तौ यदृच्छया ॥ ताभ्यां तत्र तदा दृष्टा उर्व्वशी तु वराप्सराः । स्नायन्ती सहितान्याभिः सखीभिः सा वरानना ॥ गायन्ती च हसन्ती च विश्वस्ता निर्जने वने ॥ गौरी कमलगर्भाभा स्निग्धकृष्णशिरोरुहा । पद्मपत्रविशालाक्षी रक्तोष्ठी मृदुभाषिणी ॥ शङ्खकुन्देन्दुधवलैर्दन्तैरविरलैः समैः । सुभ्रूः सुनासा सुमुखी सुललाटा मनस्विनी ॥ सिंहवत् सूक्ष्ममध्याङ्गी पीनोरुजघनस्तनी । मधुरालापचतुरा सुमध्या चारुहासिनी ॥ रक्तोत्पलकरा तन्वी सुपदी विनयान्विता । पूर्णचन्द्रनिभा बाला मत्तद्विरदगामिनी ॥ दृष्ट्वा तस्यास्तु तद्रूपं तौ देवौ बिस्मयं गतौ । यस्या हास्येन लास्येन स्मितेन ललितेन च ॥ मृदुना वायुना चैव शीतानिलसुगन्धिना । मत्तभ्रमरगीतेन पुंस्कोकिलरुतेन च ॥ सुखरेण हि गीतेन उर्व्वश्या मधुरेण च । ईक्षितौ च कटाक्षेण स्कन्दतुस्ताषुभावपि ॥ तत्त्रिधा पतितं रेतः कमलेऽथ स्थले जले । कमलेऽथ वशिष्ठस्तु जातो हि मुनिसत्तमः ॥ स्थले त्वगस्त्यः सम्भूती जले मत्स्यो महामते ! ॥” इति नारसिंहपुराणे ६ अध्यायः ॥ मत्स्यभक्षणनिषेधो यथा, —
“यो यस्य मांसमश्नाति स तन्मांसाद उच्यते । मत्स्यादः सर्व्वमांसादस्तस्मान्मत्स्यान् विवर्ज्जयेत् ॥ इति मानवे ५ अध्यायः ॥ जलस्थलचरा ये च प्राणिनस्तान् मृतानपि । न भक्षेन्मानवो ज्ञानी हन्ता तेषां भवेन्न हि ॥ हत्वा हत्वा तु मत्स्याशी सर्व्वेषां यो विशेषतः । मांसादः प्राणिनां सोऽपि तस्मान्मत्स्यं परित्यजेत् ॥” इति पाद्मोत्तरखण्डे १०५ अध्यायः ॥ वर्जनीयमत्स्या यथा, —
“शृणु देवि ! प्रवक्ष्यामि मांसभेदान्निबोध मे । नादेयं तिक्तकमठं पशुशृङ्गिणमेव च ॥ गोमीनं चक्रशकुलं वडालं राघवं तथा । वामीनं चलकर्णञ्च सचक्रं चेङ्गमेव च ॥ भूविलञ्चानिरुद्धञ्च गाङ्गेयानि विवर्ज्जयेत् ॥” इति मत्स्यसूक्तमहातन्त्रम् ॥ रविवारे मत्स्यभक्षणनिषेधो यथा, —
“आमिषं रक्तशाकञ्च यो भुङ्क्ते च रवेर्द्दिने । सप्तजन्म भवेत् कुष्ठी दरिद्रश्चोपजायते ॥” इति भविष्यपुराणम् ॥ “माषमामिषमांसञ्च मसूरं निम्बपत्रकम् । भक्षयेद् यो रवेर्वारे सप्तजन्मान्यपुत्त्रकः ॥” इति तिथ्यादितत्त्वम् ॥ कार्त्तिके मत्स्यभक्षणनिषेधो यथा, —
“न मात्स्यं भक्षयेन्मांसं न कौर्म्मं नान्यदेव हि । चण्डालो जायते राजन् ! कार्त्तिके मांसभक्ष- णात् ॥” इति नारदीयपुराणम् ॥ माघवैशाखयोर्हविष्यब्रह्मचर्य्यविधानात् मत्स्य- भक्षणं नितरां निषिद्धमिति कृत्यतत्त्वदर्शनात् ॥ जन्मतिथौ मत्स्यभक्षणनिषेधो यथा, —
“आमिषं कलहं हिंसां वर्षवृद्धौ विवर्जयेत् ॥” अपि च । “भुङ्क्ते यस्तु निरामिषं स हि भवेज्जन्मान्तरे पण्डितः ॥” इति तिथ्यादितत्त्वम् ॥ शैवस्य मत्स्यभक्षणनिषेधो यथा, —
“क्व मद्यं क्व शिवे भक्तिः क्व मांसं क्वशिवार्च्चनम् । मत्स्यमांसरतानां वै दूरे तिष्ठति शङ्करः ॥” इति काशीस्वण्डम् ॥ मा भक्ष्यं नैवेद्यार्थे भक्षेष्वजामहिषीक्षीरं वर्ज- येत् । पञ्चनखमत्स्यवराहमांसानि च । इत्या- ह्निकतत्त्वधृतविष्णुसूत्रम् ॥ * ॥
बिन्ध्यपर्व्वतस्य पश्चिमे मत्स्यभक्षणनिषेधो यथा, —
“बिन्ध्यस्य पश्चिमे मागे मत्स्यभुक् पतितो नरः ।” इति पुराणम् ॥ कामतो मत्स्यभक्षणप्रायश्चित्तं यथा, —
“मत्स्यांस्तु कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ॥” अज्ञानतस्तदर्द्धम् । इति प्रायश्चित्तविवेकः ॥ मत्स्यभक्षणप्रतिप्रसवो यथा, —
“मत्स्यान् सशल्कान् भुञ्जीत मांसं रौरवमेव च । निवेद्य देवताभ्यश्च ब्राह्मणेंभ्यश्च नान्यथा ॥ सफरं सिंहतुण्डञ्च तथा पाठीन-रोहितौ । मत्स्यास्त्वेते समुद्दिष्टा भक्षणाय तपोधनैः ॥ प्रोक्षितं भक्षयेदेषां मांसञ्च द्बिजकाम्यया । यथाविधिनियुक्तश्च प्राणानामपि चात्यये ॥” इति कौर्म्मे उपविभागे १६ अध्यायः ॥ अपि च । “पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । राजीवान् सिंहतुण्डांश्च सशल्कांश्चैव सर्व्वशः ॥” इति मानवे ५ अध्यायः ॥ “अनिवेद्य न भोक्तव्यं मत्स्यं मांसञ्च यद्भवेत् । अन्नं विष्ठा पयो मूत्रं यद्विष्णोरनिवेदितम् ॥” इत्याह्निकतत्त्वम् ॥ प्रेतश्राद्धे मत्स्यदानविधिर्यथा, —
“सपिण्डीकरणं यावत् प्रेतश्राद्धन्तु षोडशम् । पक्वान्नेनैव कर्त्तव्यं सामिषेण द्विजातिभिः ॥” इति श्राद्धतत्त्वधृतकामधेनुवचनम् ॥
शब्दकल्पद्रुमः
मत्स्यः || पुं, (जलं प्राप्य माद्यतीति मद् + “ॠत्यन्यञ्जीति ।” उणा० । ४ । २ । इति स्यन् ।)
मीनविशेषः । विराटदेशः । नारायणः । इति हेमचन्द्रः । ४ । ४०९ ॥ देशविशेषे बहुवचनान्तः । इति मेदिनी । ये, ४५ ॥ द्वादशराशिः । यथा, “मत्स्यौ घटी नृमिथुनं सगदं सवीणम् ॥” इत्यादि ज्योतिस्तत्त्वम् ॥ अष्टादशपुराणान्तर्गतपुराणविशेषः ॥ (मत्स्य- रूपेणावतीर्णेन भगवता उक्तत्वात् अस्य तदाख्या ।)
यथा, —
“पुण्यं पवित्रमायुष्यमिदानीं शृणुत द्विजाः । मात्स्यं पुराणमखिलं यज्जगाद गदाधरः ॥” इति मत्स्यपुराणे १ अध्यायः ॥ दशावतारान्तर्गतप्रथमावतारः । यथा, — सूत उवाच । “पुरा राजा मनुर्नाम चीर्णवान् विपुलं तपः । पुत्त्रे राज्यं समारोप्य क्षमावान् रविनन्दनः ॥ मलयस्यैकदेशे तु सर्व्वात्मगुणसंयुतः । समदुःखसुखो वीरः प्राप्तवान् योगमुत्तमम् ॥ बभूव वरदश्चास्य वर्षायुतशते गते । वरं वृणीष्व प्रोवाच प्रीतः स कमलासनः ॥ एममुक्तोऽब्रवीद्राजा प्रणम्य स पितामहम् । एकमेबाहमिच्छामि त्वत्त्वो वरमनुत्तमम् ॥ भूतग्रामस्य सर्व्वस्य स्थावरस्य चरस्य च । भविता रक्षणे यानं प्रलये समुपस्थिते ॥ एवमस्त्विति विश्वात्मा तत्रैवान्तरधीयत । पुष्पवृष्टिश्च महती स्वात् पपात सुरार्पिता ॥ कदाचिदाश्रभे तस्य कुर्व्वतः पितृतर्पणम् । पपात पाण्योरुपरि शफरी जलसंयुतः ॥ दृष्ट्वा तच्छफरीरूपं स दयाजुर्महीपतिः । रक्षणायाकरोद्यत्नं स तस्मिन् करकोदरे ॥ अहोरात्रेण चैकेन षोडशाङ्गुलविस्तृतः । सोऽभवन्मत्स्यरूपेण पाहि पाहीति चाब्रवीत् ॥ स तमादाय मलिके प्राक्षिपज्जलचारिणम् ॥ तत्रापि चैकरात्रेण हस्तत्रयमवर्द्धत ॥ पुनः प्राहार्त्तनादेन सहस्रकिरणात्मजम् । स मत्स्यः पाहि पाहीति त्वामहं शरणं गतः ॥ ततः स कूपे तं मत्स्यं प्राहिणोद्रविनन्दनः । यदा न माति तत्रापि कूपे मत्स्यः सरोवरे ॥ क्षिप्तोऽसौ पृथुतामागात् पुनर्योजनसम्मितः । तत्राप्याह पुनर्द्दीनः पाहि पाहि नृपोत्तमम् ॥ ततः स मनुना क्षिप्तो गङ्गायामप्यवर्द्धत । यदा तदा समुद्रे तं प्राक्षिपन्मेदिनीपतिः ॥ यदा समुद्रमखिलं व्याप्यासौ समुपस्थितः । तदा प्राह मनुर्भीतः कोऽपि त्वमसुरेश्वरः ॥ अथवा वासुदेवस्त्वमन्य ईदृक् कथं भवेत् । योजनायुतविंशत्या कस्य तुल्यं भवेद्वपुः ॥ ज्ञातस्त्वं मत्स्यरूपेण मां खेदयसि केशव ! । हृषीकेश ! जगन्नाथ ! जगद्धाम ! नमोऽस्तु ते ॥ एवमुक्तः स भगवान् मत्स्यरूपी जनार्द्दनः । साधु साध्विति चोवाच सम्यक् ज्ञातस्त्वयानघ ! ॥ अचिरेणैव कालेन मेदिनी मेदिनीपते ! । भविष्यति जले मग्ना सशैलवनकानना ॥ नौरियं सर्व्वदेवानां निकायेन विनिर्म्मिता । महाजीवनिकायस्य रक्षणार्थं महीपते ! ॥ स्वेदाण्डजोद्भिजो ये वै ये च जीवा जरायुजाः । अस्यां निधाय सर्व्वांस्ताननाथान् पाहि सुव्रत ! ॥ युगान्तवाताभिहता यदा भवति नौर्नृप ! । शृङ्गेऽश्मिन् मम राजेन्द्र ! तदेमां संयमिष्यसि ॥ ततो लयान्ते सर्व्वस्य स्थावरस्य चरस्य च । प्रजापतिस्त्वं भविता जगतः पृथिवीपते ! ॥ एवं कृतयुगस्यादौ सर्व्वज्ञो धृतिमान् नृपः । मन्वन्तराधिपश्चैव देवपूज्यो भविष्यसि ॥” इति मत्स्यपुराणे मनुविष्णुसंवादे प्रथमे सर्गे प्रथमोऽध्यायः ॥ विस्तारस्तु श्रीभागवते ८ स्कन्धे २४ अध्याये द्रष्टव्यः ॥ * ॥
तस्य मन्त्रध्यानपूजादि यथा, — शङ्कर उवाच । “एक एवाभवन्मत्स्यावतारः कल्प आदिमे । तस्य मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकम् ॥ तारो नमो भगवते मं मत्स्याय रमां वदेत् । द्वादशाक्षरमन्त्रोऽयं मुनिर्ब्रह्मा समीरितः ॥ गायत्त्री च्छन्द उदितं देवता मीनविग्रहः । भगवान् शर्व्वरीनाथो बीजं श्रीपञ्चकीलकम् ॥ नाभ्यधो रोहितसम आकण्ठञ्च नराकृतिः । घनश्यामश्चतुर्ब्बाहुः शङ्खचक्रगदाधरः ॥ शृङ्गीमत्स्यनिभो मूर्द्धा लक्ष्मीवक्षोविराजितः । पद्मचिह्नितसर्व्वाङ्गः सुन्दरश्चारुलोचनः ॥ जपेद्द्वादशसाहस्रं त्रिमध्वाक्तैस्तिलैर्हुनेत् । प्रत्यहं तद्दशांशेन वैशाखे कार्त्तिके तथा । माधे च मार्गशीर्षे च हविष्याशी जितेन्द्रियः ॥ आरभ्य भाद्रबहुलमष्ट वा षोडशाहकम् । लक्ष्मीमनुं जपेन्नित्यमिदञ्चापि कलाशतम् ॥ तथैव होमः कर्त्तव्यस्तथान्यदिवसेषु तु । तर्पयेद्द्वादशशतं तिलतण्डुलचन्दनैः ॥ आज्यन्तथा शताष्टौ च तर्पयेच्च तथा श्रियम् । रक्तोत्पलैर्वा पद्मैर्वा मालत्याद्यैः सुगन्धिभिः । एवं कृते वर्षमेकं मन्त्रसिद्धिः प्रजायते ॥ नित्यं द्वादशविप्रांश्च श्रीरूपाञ्च सुवासिनीम् । भोजयेत् पूजनञ्चास्य चरेत्तौ व्याशयेत् सदा ॥ षट्पत्रकर्णिकायाञ्च श्रीयुतं देवमर्च्चयेत् । षट्पत्रेषु षडङ्गानि यजेद्वाह्यचतुर्द्दले ॥ मण्डूकं मकरं कूर्म्मं शिशुमारञ्च पूर्ब्बतः । तद्बाह्येऽष्टदले पूज्याः क्षाराद्याः सप्त सिन्धवः ॥ तद्बाह्येऽङ्कदले पूज्या वामुक्याद्याः फणीश्वराः । तस्य वाह्ये शक्रदले रत्नानि तु चतुर्द्दश ॥ समुद्रजानि पूज्यानि लक्ष्मीकौस्तुभकानि च । गङ्गाद्याः षोडश ततो महानद्यः प्रपूजयेत् ॥ ततश्चाष्टदले वेदानुपवेदसमन्वितान् । दिगीशांश्च तदस्त्राणि नवावरणपूजनम् । एवं सिद्धमनुर्मन्त्री जायते सिद्धिभाजनम् ॥ एतदुक्तशतं मन्त्रं जपेदष्टोत्तरं शतम् । तद्देवतादिने सिद्धः पुस्तकादेव जायते ॥ अकुण्ठितप्रयोगेषु न पुनस्तस्य संस्कृतिः । एतत्पल्लविता मन्त्रा मम सिद्ध्यन्ति पार्व्वति ! ॥ एतत्संपुठिताः सर्व्वे वैदिकाः सिद्धिदाः कलौ । अनेन ग्रथिता जप्ताः कलेश्च द्रुतसिद्धिदाः ॥” इति मेरुतन्त्रे २६ प्रकाशः ॥