शब्दकल्पद्रुमः
मत्स्यनाशकः || पुं, (नाशयतीति नश् + णिच् + ण्वुल् । मत्स्यानां नाशकः । सदैव मत्स्यभक्षक- तयास्य तथात्वम् ।) कुररपक्षी । इति भूरि- प्रयोगः ॥ मत्स्यनाशकर्त्तरि त्रि ॥