वाचस्पत्यम्
मत्स्यरङ्ग || पुंस्त्री० मत्स्ये रजति रन्ज—कर्त्तरि संज्ञायां घञ् । (माछराङ्गा) पक्षिभेदे हारा० “त्रिभुवनविदितो हा भत्स्यरक्ते कलङ्कः” उद्भटः । स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
मत्स्यरङ्गः || पुं, (मत्स्यान् रङ्गति भक्षणार्थं तत्समीपं गच्छतीति । मत्स + रगि + अच् ।)
पक्षिविशषः । माछराङ्गा इति भाषा । (यथा, “त्रिभुवनविदितो हा मत्स्यरङ्गे कलङ्कः ॥” इत्युद्भटः ॥)
तत्पर्य्यायः । झम्पाशी २ जलमद्गुः ३ मणी- चकः ४ । इति हारावली ॥ मत्स्याशनः ५ मीनरङ्कुः ६ मत्स्यरङ्कः ७ सुचित्रकः ८ । इति शब्दरत्नावली ॥