वाचस्पत्यम्
मत्स्यराज || पु० ६ त० । १ रोहितमत्स्ये त्रिका० । २ वि- राटनृपे “नगरं मत्स्यराजस्य” भा० व० ७२ अ० । तस्य मत्स्यदेशाधिपत्वात् तथात्वम् ।
शब्दकल्पद्रुमः
मत्स्यराजः || पुं, (मत्स्येषु राजा श्रेष्ठः समा- सान्तष्टच् ।)
रोहितमत्स्यः । इति त्रिकाण्ड- शेषः ॥ विराटराजः । (“तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान् ।” इति महाभारते । ४ । ६९ । २१ ।)