वाचस्पत्यम्
मत्स्यवेधन || न० मत्स्यो विध्यतेऽनेन विध—करणे ल्युट् । १ वडिशे अमरः स्त्रीत्वमपि जटा० ङीप् । कर्त्तरि ल्यु । २ मद्गुपक्षिणि (पानकौडि) स्त्री जटा० ।
शब्दकल्पद्रुमः
मत्स्यवेधनं || क्ली (मत्स्योविध्यतेऽनेनेति मत्स्य + विध + करणे ल्युट् । मत्स्यानां वेधनमिति वा ।)
वडिशम् । इत्यमरः । १ । १० । १६ ॥