वाचस्पत्यम्
मत्स्याङ्गी || स्त्री मत्स्यः तत्पित्तमिवाङ्गं तिक्तत्वात् यस्याः ङीष् । हिलमोचिकायाम् त्रिका० ।
शब्दकल्पद्रुमः
मत्स्याङ्गी || स्त्री (मत्स्यानां अङ्गमिवाङ्गं यस्याः ।) हिलमोचिका । इति त्रिकाण्डशेषः ॥