वाचस्पत्यम्
मथन || न० मथ—ल्युट् । १ बधे २ क्लेशे ३ विलोडने च । “क्षीरोद- मथनोद्भूता” चन्द्रस्तवः । ४ गणिकारिकावृक्षे पु० रत्नमा० ।
शब्दकल्पद्रुमः
मथनं || क्ली (मथ्यते इति मथ + भावे ल्युट् ।)
विलोडनम् । मओया इति भाषा । यथा, —
“क्वाहं मन्दमतिः क्वेदं मथनं क्षीरवारिधेः । किं तत्र परमाणुर्वै यत्र मज्जति मन्दरः ॥” इति भागवते । १ । १ । १ । टीकायां श्रीधरस्वामी ॥ अस्त्र विशेषः । यथा, हरिवंशे । २३६ । १० । “ऐषीकमस्त्रमैन्द्रञ्च आग्नेयं शैशिरं तथा । वायव्यं मथनं नाम कापालमथ किङ्करम् ॥”)
शब्दकल्पद्रुमः
मथनः || पुं, (मथति रोगानिति मथ + कर्त्तरि ल्युः ।)
गणिकारिकावृक्षः । इति रत्नमाला ॥ (मथनकारके, त्रि । केशिमथनमुण्डमथन्यादि- दर्शनात् ।)