संस्कृत-शब्दकोशः

मथूरा मदकट

मद

वाचस्पत्यम्

मद ||‍ गर्वे दैन्ये च भ्वा० पर० अक० सेट् । मदति अमादीत्—अमदीत् घटा० मदयति ।


वाचस्पत्यम्

मद ||‍ जाड्ये स्वप्ने मदे आमोदे स्तुतौ दीप्तौ च यथायथं अक० सक० च भ्वा० आत्म० इदित् । मन्दते अमन्दिष्ट । तत्र स्तुतौ “मन्दमानः सुमन्मभिः” ताण्ड्य० ब्र० १ । ७ । ६ । “मन्दमानः स्तूयमानः मदि—स्तुतौ कर्भणि यकि प्राप्ते व्यत्ययेन शप्” भा० ।


वाचस्पत्यम्

मद ||‍ तर्षणे चु० आ० सक० सेट् । मादयते । अमीमदत ।


वाचस्पत्यम्

मद ||‍ पु० मद अच् । १ हस्तिगण्डादिस्नुतजले दानजले अमरः २ गर्वे हर्षे ३ रेतसि ४ मृगमदे मेदि० ५ मत्ततायाम् हेमच० । ४ नदे ५ कल्याणकरे वस्तुनि च धरणिः ।


वाचस्पत्यम्

मद ||‍ हर्षे दिवा० पर० अक० सेट् शमा० । माद्यति इरित् अम- दत् अमादीत् अमदीत् । ईदित् निष्ठायामनिट् पुषदिरयं तेन अमददित्येवेति पाणिनीयाः । घटा० मदयति जीत् मत्तोऽस्ति । प्र + अनवधाने ।


शब्दकल्पद्रुमः

मद || इ ङ स्वप्ने । जाड्ये । मदे । मोदे । स्तुतौ । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०- स्वप्ने जाड्ये मद मोदे अक०-स्तुतौ गतौ च सक०-सेट् ।)
मन्द्यते । ङ मन्दते जनः स्वपिति जडो भवति माद्यति मोदते स्तौति गच्छति वा इत्यर्थः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मद || ई भ य इर् ञि हर्षे । इति कविकल्पद्रुमः ॥ दिवा०-पर०-अक०-सेट् ।)
ई ञि मत्तोऽस्ति । भ य माद्यति । इर् अमदत् अमादीत् । अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मद || क ङ तृप्तियोगे । इति कविकल्पद्रुमः ॥ (चुरा०-आत्म०-सक०-सेट् ।)
क ङ मनो माद- यते यस्य शास्त्राभ्यासरसायनात् । इति दुर्गा- दासः ॥


शब्दकल्पद्रुमः

मदः || पुं, (मदयतीति । मद् + अच् ।)
हस्ति- गण्डजलम् । (यथा, भारवौ । २ । १८ । “मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्त्तयते स्वयं हतैः ।”)
तत्पर्य्यायः । दानम् २ ॥ (मद्यते इति । मद् + “मदोऽनुपसर्गे ।” ३ । ३ । ६७ । इति अप् ।)
हर्षः । (यथा, ऋग्वेदे । १ । ४ । २ । “उप नः सवनागहि सोमपाः पिब गोदा इद्रेवतो मदः ॥” “मदो हर्षः ।” इति तद्भाष्येसायनः ।)
तत्पर्य्यायः । आमोदः २ । इत्यमरः । ३ । २ । १२ ।)
रेतः । कस्तूरी । (पर्य्यायो यथा, —
“मृगनाभिर्मृगमदो मदः कस्तूरिकाण्डजः ॥” इति वैद्यकरत्नमालायाम् ॥ रोगविशेषः । उन्मादस्य प्रथमावस्थायां यथा, “स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्त्ति च ।” इति माधवकृतरुग्विनिश्चये उन्मादाधिकारे ॥ विशेषोऽस्य यथा, — यदा तु रक्तवाहीनि रससंज्ञावहानि च । पृथक् पृथक्समस्ता वा स्रोतांसि कुपिता मलाः ॥ मलिनाहारशीलस्य रजोमोहावृतात्मनः । प्रतिहत्यावतिष्ठन्ते जायन्ते व्याधयस्तदा ॥ मदमूर्च्छायसंन्यासास्तेषां विद्याद्बिचक्षणः । यथोत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु ॥ दुर्ब्बलञ्चेतसः स्थानं यदा वायुः प्रपद्यते । मनो विक्षोभयन् जन्तोः संज्ञां संमोहयेत्तदा ॥ पित्तमेवं कफश्चैवं मनो विक्षोभयन् नृणाम् । संज्ञां नयत्याकुलतां विशेषश्चात्र वक्ष्यते ॥ स्वप्नानल्पद्रुताभाषञ्चलस्खलितचेष्टितम् । विद्याद्बातमदाविष्टं रूक्षश्यावारुणाकृतिम् ॥ सक्रोधपरुषाभाषं संप्रहारकलिप्रियम् । विद्यात् पित्तमदाविष्टं रक्तपीतासिताकृतिम् ॥ स्वल्पसम्बन्धवचनं तन्द्रालस्यसमन्वितम् । विद्यात् कफमदाविष्टं पाण्डुं प्रध्यानतत्परम् ॥ सर्व्वाण्येतानि रूपाणि सन्निपातकृते मदे । जायन्ते शाम्यति त्वाशु मदो मद्यमदाकृतिः ॥ यश्च मद्यमदः प्रोक्तो विषजो रौधिरश्च यः । सर्व्व एते मदानर्त्ते वातपित्तकफाश्रयात् ॥” इति चरके सूत्रस्थाने चतुर्व्विंशेऽध्याये ॥)
गर्व्वः । इति मेदिनी । दे, १२ ॥ (यथा, भारवौ । २ । ४९ । “मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता ॥”)
मद्यम् । क्षैव्यम् । मत्ततेति यावत् । इति हेम- चन्द्रः । २ । २२६ ॥ (यया, मनौ । ७ । ४७ । “मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।” “तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः ॥”)
नदः । कल्याणवस्तु । इति धरणिः ॥ * ॥
मदलक्षणं यथा, —
“अहं महात्मा धनवान् मत्तुल्यः कोऽस्ति भूतले । इति यज्जायते चित्तं मदः प्रोक्तः स कोविदैः ॥” इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥ तस्य उत्पत्तिर्यथा । “बुर्द्धेर्मोहः समभवदहङ्कारादभून्मदः ।” इति मात्स्ये ३ अध्यायः ॥ (दानवभेदः । यथा, हरिवंशे । ३ । ८६ । “असिलोमा सुकैशी च शटश्च बलको मदः ॥”


शब्दकल्पद्रुमः

मद || म गर्व्वे । म्लेपने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सेट् ।)
गर्व्वोऽहङ्कारः । ग्लेपनं दैन्यम् । म मदयति नीचं सम्पत्तिः । मदयति शत्रुं शूरः । इति दुर्गादासः ॥



Correction: