वाचस्पत्यम्
मदनगोपाल || पु० मदन इव गोपालः । श्रीकृष्णे ।
शब्दकल्पद्रुमः
मदनगोपालः || पुं, (मदनश्चासौ गोपालश्चेति । भक्तचित्तोन्मादकारित्वादस्य तथात्वम् ।) श्रीकृष्णः । यथा, — “वन्दे मदनगोपालं कैशोराकारमद्भुतम् ।” इति पाद्मे पातालखण्डे ९ अध्यायः ॥