वाचस्पत्यम्
मदनत्रयोदशी || स्त्री मदनपूजार्था त्रयोदशी । चैत्रशुक्ल- त्रयोदश्याम् ति० त० दृश्यम् ।
शब्दकल्पद्रुमः
मदनत्रयोदशी || स्त्री (मदनपूजार्था त्रयोदशी ।)
चैत्रशुक्लत्रयोदशी । तत्र मदनस्य व्रतं कर्त्तव्यम् । यथा भविष्ये । “चैत्रशुक्लत्रयोदश्यां मदनं दमनात्मकम् । कृत्वा संपूज्य विधिवद्बीजयेद्ब्यजनेन तु ॥ तत्र सन्धुक्षितः कामः पुत्त्रपौत्त्रविवर्द्धनः । कामदेवस्त्रयोदश्यां पूजनीयो यथाविधि । रतिप्रीतिसमायुक्तो ह्यशोकमणिभूषितः ॥” दमनो दमनकवृक्षः । सन्धुक्षितः प्रीणितः । कामदेवध्यानन्तु । “चापेषुधृक् कामदेवो रूपवान् विश्वमोहनः ।” तत्र स्तुतिमन्त्रः । “पुष्पधन्वन् ! नमस्तेऽस्तु नमस्ते मीनकेतन ! । मुनीनां लोकपालानां धैर्य्यच्युतिकृते नमः ॥ माधवात्मज ! कन्दर्प ! सम्बरारे ! रति- प्रिय ! । नमस्तुभ्यं जिताशेषभुवनाय मनोभुवे ॥ आधयो मम नश्यन्तु व्याधयश्च शरीरजाः । सम्पद्यतामभीष्टं मे सम्पदः सन्तु मे स्थिराः ॥ नमो माराय कामाय देवदेवस्य मूर्त्तये । ब्रह्मविष्णुशिवेन्द्राणां मनःक्षोभकराय च ॥ एवं यः कुरुते पूजामनङ्गस्य महात्मनः । भवन्ति नापदस्तस्य तस्मिन्नब्दे कदाचन ॥” इति तिथितत्त्वम् ॥