वाचस्पत्यम्
मदनद्वादशी || स्त्री मदनपूजार्था द्वादशी । चैत्रशुक्लद्वादश्याम् मत्स्यपु० ७ अ०
शब्दकल्पद्रुमः
मदनद्वादशी || स्त्री (मदनपूजाविषयिणी द्वादशी ।)
चैत्रशुक्लद्वादशी । अत्र मदनव्रतं कार्य्यम् । यथा, ऋषय ऊचुः । “श्रोतुमिच्छामहे सूत ! मदनद्बादशीव्रतम् । सुतानेकोनपञ्चाशत् येन लेभे दितिः पुनः ॥ सूत उवाच । यद्बशिष्ठादिभिः पूर्ब्बं दितेः कथितमुत्तमम् । विस्तरेणैतदेवेदं मत्सकाशान्निबोधत ॥ चैत्रे मासि सिते पक्षे द्वादश्यां नियतव्रतः । स्थापयेदव्रणं कुम्भं सिततण्डुलपूरितम् ॥ नानाफलयुतं तद्बदिक्षुदण्डसमन्वितम् । सितवस्त्रयुगच्छन्नं सितचन्दनचर्च्चितम् ॥ नानाभक्ष्यफलोपेतं सहिरण्यञ्च शक्तितः । ताम्रपात्रं शुभोपेतं तस्योपरि निवेदयेत् ॥ तस्मादुपरि कामन्तु कदलीदलसंस्थितम् । कुर्य्याच्छर्करयोपेतां रतिं तस्य च वामतः ॥ गन्धधूपं ततो दद्यात् गीतवाद्यञ्च कारयेत् । तदभावे कथां कुर्य्यात् कामकेशवयोर्नरः ॥ कामनाम्ना हरेरर्च्चां स्नापयेद् गुडवारिणा । शुक्लपुष्पाक्षततिलैरर्च्चयेन्मधुसूदनम् ॥ कामाय पादौ संपूज्य जंघे सौभाग्यदाय च । ऊरू स्मरायेति पुनर्मंन्मथायेति वै कटिम् ॥ स्वच्छोदरायेत्युदरं अनङ्गायेत्युरो हरेः । मुखं पद्ममुखायेति बाहू पञ्चशराय वै ॥ नमः सर्व्वात्मने मौलिमर्च्चयेदिति केशवम् । ततः प्रभाते तं कुम्भं ब्राह्मणाय निवेदयेत् ॥ ब्राह्मणान् भोजयेद्भक्त्या स्वयञ्च लवणादृते । भुक्त्वाथ दक्षिणां दद्यादिमं मन्त्रमुदीरयेत् ॥ प्रीयतामत्र भगवान् कामरूपी जनार्द्दनः । हृदये सर्व्वभूतानामानन्दो यो विधीयते ॥ अनेन विधिना सर्व्वं मासि मासि समाचरेत् । उपवासी त्रयोदश्यामर्च्चयेद् विष्णुमव्ययम् ॥ फलमेकञ्च संप्राश्य द्वादश्यां भूतले स्वपेत् । ततस्त्रयोदशे मासि घृतं धेनुसमन्वितम् ॥ शय्यां दद्यादनङ्गाय सर्व्वोपस्करसंयुताम् । काञ्चनं कामदेवञ्च शुक्लां गाञ्च पयस्विनीम् ॥ वासोभिर्द्विजदाम्पत्यं पूज्य शक्त्या विभूषणैः । शय्यां गवादिकं दद्यात् प्रीयतामित्युदीरयेत् ॥ होमं शुक्लैस्तिलैः कुर्य्यात् कामनामानि कीर्त्तयन् । गव्येन सर्पिषा चैव पायसेन च धर्म्मवित् ॥ विप्रेभ्यो भोजनं दद्याद्वित्तशाठ्यविवर्ज्जितः । इक्षुदण्डानथो दद्यात् पुष्पमालाश्च शक्तितः ॥ यः कुर्य्याद्विधिनानेन मदनद्वादशीमिमाम् । सर्व्वपापविनिर्मुक्तः प्राप्नोति हरिसाम्यताम् । इह लोके वरान् पुत्त्रान् सौभाग्यञ्च समश्नुते ॥” इति मत्स्यपुराणे ७ अध्यायः ॥