वाचस्पत्यम्
मदनपाठक || पु० मदनोद्दीपनार्थं पठति पठ—ण्वुल् । स्मरो- द्दीपनशब्दकारके कोकिले राजनि० ।
शब्दकल्पद्रुमः
मदनपाठकः || पुं, (मदनं तदुद्दीपकं पठतीति । पठ + ण्वुल् । स्वरेण कामोद्दीपनात्तथात्वम् ।) कोकिलः । इति राजनिर्घण्टः ॥