वाचस्पत्यम्
मदनावस्था || स्त्री मदनकृतावस्था शा० त० । कामिनां स्मरकृते उन्मादादौ दशाभेदे दशाशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
मदनावस्था || स्त्री (मदनस्यावस्था ।)
कामा- वस्था । सा तु उद्वेगरूपा । विरह इति यावत् । यथा । ततः प्रविशति मदनावस्थो राजा निःश्वस्य । “जाने तपसो वीर्य्यं सा बाला परवतीति मे विदितम् । न च निम्नादिव सलिलं निवर्त्तते मे ततो हृद- यम् ॥” इत्यभिज्ञानशाकुन्तले ३ अङ्कः ॥ मदनावस्थ इति राज्ञोऽत्र उद्बेगरूपा पञ्चमी कामा- वस्था । यदाह भरतः । उद्वेगः पञ्चमः प्रोक्त इति । सचिन्तमिति केनोपायेन मम शकु- न्तलालाभो भविष्यति । इति तट्टीका ॥