संस्कृत-शब्दकोशः

मदयन्तिका मदयित्नु

मदयन्ती

वाचस्पत्यम्

मदयन्ती ||‍ स्त्री मद—णिच्—झच् गौरा० ङीष् । वनमल्लिका- याम् (काठमल्लिका) राजनि० । स्वार्थे क ह्रस्वः । मद- यन्तिका तत्रैवार्थे शब्दरत्ना० ।


शब्दकल्पद्रुमः

मदयन्ती || स्त्री (मद् + झच् + ङीप् ।)
वन- मल्लिका । इति रत्नमाला ॥ काट्मल्लिका इति भाषा ॥ मल्लिका । इतिराजनिर्घण्टः ॥ (तथाचास्याः पर्य्यायो यथा, —
“मल्लिका मदयन्ती च शीतभीरुश्च भूपदी ।” इतिभावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “मदयन्त्यङ्घ्रिजः क्वाथस्तद्वत् समधुशर्करः ।” इति च वैद्यकचक्रपाणिसंग्रहे रक्तपित्ताधिकारे ॥)



Correction: