संस्कृत-शब्दकोशः

मदाम्बर मदार्मद

मदार

वाचस्पत्यम्

मदार ||‍ पुंस्त्री० मद आरन् । १ वराहे उज्ज्वल० स्त्रियां ङीष् । २ धूर्त्ते ३ मत्तगजे विश्वः । ४ कामुके ५ नृपभेदे उणादिको० ।


शब्दकल्पद्रुमः

मदारः || पुं, (माद्यति मत्तो भवतीति । मद् + “अङ्गिमदिमन्दिभ्य आरन् ।” उणा० । ३ । १३४ । इति आरन् ।)
हस्ती । धूर्त्तः । इति विश्वः ॥ शूकरः । कामुकः । गन्धभेदः । मत्त- हस्ती । नृपभेदः । इत्युणादिकोषः ॥



Correction: