संस्कृत-शब्दकोशः

मदिरा मदिरागृह

मदिराक्षी

वाचस्पत्यम्

मदिराक्षी ||‍ पु० १ विरादस्य भ्रातरि भा० वि० ३१ अ० । मदिरा- मत्तखञ्जनाक्षीवाक्षियस्य षच्समा० । खञ्जनतुल्यनेत्रे त्रि० स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

मदिराक्षी || स्त्री (मदिरे इव अक्षिणी यस्याः इति अक्षि + “अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ । इति अच् । स्त्रियां ङीप् ।)
मत्तलोचना । यथा, —
“अविदितसुखदुःखं निर्गुणं वस्तु किञ्चि- ज्जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे । मम तु मतमनङ्गस्मेरतारल्यघूर्ण- न्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ॥” इत्युद्भटः ॥ (पुं, विराटराजस्य भ्राता । यथा, महा- भारते । ४ । ३० । ११ — १२ । सवज्रायसगर्भन्तु कवचं तप्तकाञ्चनम् । विराटस्य प्रियो भ्राता शतानीकोऽभ्यहार- यत् ॥ सर्व्वपारशवं वर्म्म कल्याणपटलं दृढम् । शतानीकादवरजो मदिराक्षोऽभ्यहारयत् ॥)



Correction: