वाचस्पत्यम्
मदिरागृह || न० मदिरसन्धानार्थं गृहम् शाक० त० । गञ्जाख्ये मद्यसन्धानार्थे गृहे अमरः
शब्दकल्पद्रुमः
मदिरागृहं || क्ली (मदिराया गृहम् ।)
मद्यस्य गृहम् । मद्यसन्धानगृहम् । तत्पर्य्यायः । गञ्जा २ इत्यमरः । २ । २ । ८ ॥ गुञ्जा ३ । यथा, —
“भाण्डागारे विदुर्गञ्जं खनौ खञ्जा सुरागृहे । मद्यभाण्डे स्मृता गुञ्जा गुञ्जा स्यात् काक- कुंञ्चिका ॥” इनि भरतधृतहड्डचन्द्रः ॥