वाचस्पत्यम्
मदोत्कट || पु० मदेन दानवारिणा उत्कटः उद्दृप्तः । १ मत्त गजे अमरः २ मदिरायां स्त्री राजनि० । ३ मदोद्धते त्रि० ।
शब्दकल्पद्रुमः
मदोत्कटः || पुं, (मदेन दानवारिणा उत्कटः ।)
मत्तहस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा, महाभारते । ३ । ६५ । ८ । “ते तान् ग्राम्यगजान् दृष्ट्वा सर्व्वे वनगजास्तदा । समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः ॥”)