संस्कृत-शब्दकोशः

मद्गु मद्गुरक

मद्गुर

वाचस्पत्यम्

मद्गुर ||‍ पुंस्त्री० मद—अरच न्यङ्क्वा० । (मागुर) १ मत्स्यमेदे । स्वार्थे स । तत्रैव अमरा स्त्रियां ङीप् । तद्गुणाः मत्स्यशब्दे भावप्र० उक्ताः । “निषादो मद्गुरं सूते” भा० अनु० ४८ उक्ते २ सङ्कीर्णजातिभेदे (डुबुरि) पुंस्त्री० । “मद्गूनि मीनभेदान् लाति ला—क लस्य रः” नीलकण्ठः । जल- मज्जनेन मीनहारित्वात् तस्य तथात्वम् । “तस्मादेते जले मग्नाः मद्गुरा नाम विश्रुताः । ये हरन्ति सदाऽसं- ख्यान् समुद्रोदरचारिणः” हरिवं० ९५ अ० ।


शब्दकल्पद्रुमः

मद्गुरः || पुं, (माद्यति जलं प्राप्य हृष्यतीति । मद् + “मद्गुरादयश्च ।” उणा० । १ । ४२ । इति उरच् निपातितश्च ।)
मत्स्यविशेषः । इत्यमरः । १ । १० । १९ ॥ मागुर इति भाषा । (यथा । ललितविस्तरे । ३२० । ७ । “श्रमणो गौतमः श्यामको वत भो श्रमणो गौतमो मद्गुरच्छविः ।”)
अस्य गुणाः । मधुरत्वम् । स्निग्धत्वम् । संग्रा- हित्वम् । शुक्लत्वम् । गुरुत्वञ्च । इति राज- वल्लभः ॥ (यथाच भावप्रकाशपूर्ब्बखण्डे द्वितीय- भागे । “मद्गुरो वातहृद्बल्यो वृष्यः कफकरो लघुः ॥” वर्णशङ्करजातितिशेषः । यथा, महाभारते । १३ । २५ । ८३ । “निषादं मुद्गुरं सूते दाशं नावोपजीविनम् ।” “मद्गून् मीनविशेषान् राति आदत्ते इति रा + कः । तम् ।” इति तट्टीकायां नीलकण्ठः ।)



Correction: