संस्कृत-शब्दकोशः

मद्गुरसी मद्यकीट

मद्य

वाचस्पत्यम्

मद्य ||‍ न० माद्यत्यनेन करणे यत् । मदिराशब्दे उक्ते माध्वी- कादिद्वादशविधे मादकद्रव्ये अमरः । मद्यभेदा वर्णभेदेन तत्पाननिषेधादिकं प्रा० वि० उक्तं यथा “पुलस्त्यः “पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् । माध्वीकं टाङ्कमाध्वीकं मैरेयं नारिकेलजम् । समानानि विजानीयान्मद्याज्येकादशैव तु । द्वादशन्तु सुरामद्यं सर्वे- षामधमं स्मृतम्” । अनेनैकादशानां सुरात्वं निषेधयति मद्यशब्दस्तु मदहेतुद्रवद्रव्यमात्रवचनः तस्मादेव वचनान्न तु मद्यमात्रं सुराशब्दार्थः । तथा च वृहस्पतिः “गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् । तप्तकृच्छ्रं पराकञ्च चान्द्रायणमनुक्रमात्” । त्रयाणां सुरात्वे क्रमेण प्रायश्चित्तं न स्यात् । यथा भविष्ये “सुरा तु पैष्टी मुख्योक्ता न तस्यास्त्वितरे समे” । पैष्टीति तण्डुलविकारमात्रोपलक्षणम् । इतरे गौडीमाध्व्यौ अतोऽन्नविकार एव सुराशब्दस्य मुख्यत्वात् त्रिविधा सुरेति गौडीमाध्व्योर्गौणसुरात्वज्ञापनार्थम् । तेनैतत्- पानेऽपि महापातकत्वमतिदिशति “यथैवैका तथा सर्वेति” पैष्ट्यां पूर्वप्रसिद्धिं दर्शयति यथा पैष्टी सुरा तथा सर्वा गौडी माध्वी च पूर्ववचनोक्ता पैष्टीदृष्टान्तत्वेनात्र दर्शिता न पातव्या द्विजोत्तमैर्ब्राह्मणैरित्यर्थः । त्रैवर्णिकपरत्वे उत्तसपदानर्थक्यात् । न च बहुवचनानर्थक्यपरिहारार्थम् उत्तमप्रतिपदिकानर्थक्यं युक्तं बहुवचनस्य स्वजातीयोप- स्थापके चरितार्थत्वात् । अतो ब्राह्मणस्य त्रिविधसुरापानं महापातकं क्षत्रियवैश्ययोस्तु “सुरा वै सलमन्नानामिति” वचनेन पैष्ट्येवेति स्थितम् । गोविन्दराजविश्वरूपधा- रेश्वराणामनुसतोऽयमर्थः । अतएव “एव माध्वी च गौटी च पैष्टी च त्रिविघा सरा । द्विजातिभिर्न पातव्या कदाचिदपि कर्हिचिदिति” यमवचनेऽपि द्विजा- तिपदं ब्राह्मणपरमेव । अतएव द्विविधसुरापाने क्षत्रि- यादीनां महापातकं दूरे तावदस्तु दोषाभाबमेवाह वृद्धयाज्ञवल्क्यः “कामादपि हि राजन्यो वैश्यश्चापि कथञ्चन । मद्यमेवासुरां पीत्वा न दोषं प्रतिपद्यते” । तदेवं पैष्टीनिषेधस्त्रैवर्णिकानां गौडीमाध्वीनिषेधस्तु ब्राह्मणानामेव । ननु ब्राह्मणराजन्याविति विशेषणात् पुंलिङ्गमत्र विवक्षितम् । अतः कथं ब्राह्मण्याः सुरापानं महापातकम् । उच्यते निषिध्यमानक्रियाया विधेयत्वेन तत्कर्त्तुरनुपादेयत्वात्तद्विशेषणं लिङ्गमविवक्षितं हवि- रुभयत्ववत् अतस्तज्जातीयस्त्रीणामपि पाननिषेधः । यथा भविष्ये “तस्मान्न पेयं विप्रेण सुरामद्यं कथ- ञ्चनन । ब्राह्मण्यापि न पेया वै मुरा पापभयावहा” । “या ब्राह्मणी सुरापी स्यात् न तां देवाः पतिलोकं नयन्ति” इति श्रुतेः । “पत्युरर्द्धशरीरेण भार्य्या यस्य सुरां पिबेत् । पतितार्द्धशरीरस्य निष्कृतिनोपपद्यते” । न चैबं क्षत्रियवैश्यस्त्रीणामनिषेधः, ब्राह्मणीपदस्य निषिद्ध- सुरापानकर्त्तुर्भार्य्योपक्षक्षकत्वात् भार्य्या यस्य सुरां पिबे- दिति सामान्यश्रवणात् । पानञ्च द्रवीभूतस्याभ्यव- हारः स च कण्ठदेशादधोनयनं न तु वक्त्रमात्रप्रवेशः । निष्ठीवनाद्यर्थं कपोलधारणे पानशब्दाप्रयोगात् यथोक्तं “जिघ्रन्नहि सुरां कश्चित् पिवतीत्यभिधीयते । यावन्न क्रियते वक्त्रे गण्डूषस्य प्रवेशनम्” । तत्र गण्डूषपरिमाणमविवक्षितं गण्डूपार्द्धपानेऽपि लोके पानशब्दप्रयोगात् अतएव मुखप्रवेशनमत्राविवक्षितं किन्तु येन मुखप्रवेशेन कण्ठादधोनयनं मवति अतस्त- देवोपलक्षयति अतएवोष्ठमात्रलेपे न पाननिष्पतिः अतस्तत्रोत्तमाङ्गस्पर्शप्रायश्चित्तम् । एतेन केवलौष्ठसंयोगे तप्तकृच्छ्रसंस्काराविति वालकस्य व्याख्यानमसङ्गतं पानानिष्पत्तेरिति ।” मद्यमेदगुणादिकं भावप्र० उक्तं यथा “मद्यन्तु सीधुर्मैरयमिरा च मदिरा सुरा । कादम्बरी वारुणी च हालापि बलवल्लभा । पेयं यन्मादकं लोकैस्तन्मद्यमभिधीयते । यथारिष्टं सुरा सीधुरासवाद्य- मनेकथा । मद्यं सर्वं भवेदुष्णं पित्तकृद्वातनाशनम् । भेदनं शीघ्रपाकञ्च रूक्षं कफहरं परम् । अम्लञ्च दीपनं रुच्यं पाचनं चाशुकारि च । तीक्ष्णं सूक्ष्मञ्च विशदं व्ययामि च विकाशि च” । अथारिष्टस्य लक्षणं गुणाथ “पकोषधाम्बुसिद्धं यस्मद्यं तत्स्यादरिष्टकम्” । अरिष्टं मद्यमिति लोके । यथा द्राक्षारिष्टम् । दश मूलारिष्टम् । वव्वूलारिष्टमिति । “अरिष्टं लघु- पाकेन सर्वतश्च गुणाधिकम् । अरिष्टस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः” । अथ सुरालक्षणं गुणाश्च “शालिषष्टिकपिष्टादिकृतं मद्यं सुरा स्मृता । सुरा- गुर्नी वलस्तन्यपुष्टिमेदःकफप्रदा । शोथहृत् ग्राहि गुल्मार्शोग्रहणीमूत्रकृच्छ्रनुत्” । अथ सुराभेदी वारुणी तस्या लक्षणं गुणाश्च “पुनर्नवाशिलापिष्टै- र्वारुणी विहिता स्मृता । संहितैस्तालखर्जूररसैर्या सापि वारुणी । सुरावद्वारुणी लघ्वी पीनसाघ्मान शूलनुत्” । सुरातो भेदार्थं लघ्वीति । अथ सीघु- द्वयस्य लक्षणं गुणाश्च “इक्षोः पक्वैः रसैः सिद्धः सीधुः पक्वरसश्च सः । आमैस्तैरेव यः सीधुः स च शीतरसः स्मृतः । सीधुः पक्वरसः श्रेष्ठः स्वराग्नि- वलवर्णकृत् । वातपित्तकरः सद्यः स्नेहनो रोचनो हरेत् । विवन्धमेदःशीफार्शःशोथोदरकफामयान् । तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः ।” अथासवस्य लक्षणं गुणाश्च “यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः । था लोहासवादिः । “आसवस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः ।” अथ नवपुराणमद्य- गुणाः । “मद्यं नवमभिष्यन्दि त्रिदोषजनकं सरम् । अहृद्यं वृंहणन्दाहि दुर्गन्धं विशदं गुरु । जीर्णन्त- देव रोचिष्णु कृमिश्लेष्मानिललापहम् । हृद्यं सुगन्धि- गुणवल्लघु म्लोतोविशोधनम्” । अथ सात्त्विकानां मद्यं पिवतां चेष्टाविशेषाः । “सात्त्विके गीतहास्यादि राजसे साहसादिकम् । तामसे निन्द्यकर्माणि निद्राञ्च मदि- राचरेत्” । आचरेत् कुर्य्यात् “विधिना मात्रया काले हितै- रन्नैर्यथाबलम् । प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा । किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् । अयुक्तियुक्तं रोगाय युक्तियुक्तं यथामृतम्” । अथ मद्यानां गन्धनाशनोपायः । “सुस्तैलवालमदजीरक- धान्यकैला यश्चर्वयन् सदसि वाचमभिव्यनक्ति । स्वाभा- विकं मुखजमुज्झति पूतिगन्धं गन्धञ्च मद्यलशुनादि- भवञ्च नूनम् ।” ओषधार्थमपि विप्रैर्मद्यं न पेयम् मदिराशब्दे राजनि० वाक्यं दर्शितम् । पुराणादौ ब्राह्मणस्य मद्यनिषेधो यथा “अदेयकाप्यपेयञ्च तथैवास्पृश्यमेव च । द्विजातीना- मनालोच्यं नित्यं मद्यमिति प्रयत्नेन मद्यं नित्यं विवर्जयेत् । पीत्वा पतति कर्मस्थितम् । तस्मात् सर्व- भ्यस्त्वसम्भाष्यो द्विजोत्तमः । भक्षयित्वाप्यभक्ष्याणि पीत्वा- पेयान्यपि द्विजः । नाधिकारी भवेत्तावद्यावत्तन्न जहा- त्यधः । तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः । अपेयानि च विप्रो वै पीत्वा तद्याति रौरवम् । कूर्म पु० १६ अ० । “द्विजस्य पूजादौ मद्यदानविध्यनुकल्प निषेधो यथा । “मदिरां पृष्ठतो दद्यात् अन्यत् पानन्तु वामतः । अवश्यं विहितं यत्र मद्यं तत्र द्विजः पुनः । नारिकेलजलं कांस्ये ताम्रे च विसृजेन्मधु । नापद्यपि द्विजो मद्यं कदाचित् विसृजेदपि । ऋते, पुष्पासवादुक्तात् व्यञ्जनाद्वा विशेषतः । राजपृत्रस्तथा मर्त्यः सचिवः सौप्तिकादयः । दद्युर्नरबलिं भूप सम्मत्या विभवाय च । मूपालानुमते मद्यं ददत् पाप- मवाप्नुयात्” कालिका पु० ६६ अ० । अथ ब्राह्मणस्य मद्यपाननिषेधकशुक्रशापो यथा “वैशाम्पायन उवाच । सुरापानाद्वञ्चनां प्राप्य विद्वान् संज्ञानाशं प्राप्य चैवाति- घोरम् । दृष्ट्वा कचञ्चापि तथाभिरूपं पीतं तथा सुरया मोहितेन । समन्युरुत्थाय महानुभावस्तदोशना विप्र- हितं चिकीर्षुः । काव्यः स्वयं वाक्यमिदं जगाद सुरापानं प्रति वै जातशङ्कः । यो ब्राह्मणोऽद्यप्रभृतीह कश्चित् मोहात् सुरां पास्यति मन्दबुद्धिः । अपेतधर्मो ब्रह्महा चैव स स्यादस्मिँल्लोके गर्हितः स्यात् परे च । मया चेमां विप्रधर्मोक्तसीमां मर्य्यादां वै स्थापितां सर्व- लोके । सन्तो विप्राः शुश्रुवांसो गुरूणां देवालोका- श्चोपशृण्वन्तु सर्वे” भा० आ० ७६ अ० । “नारिकेलञ्च खार्जूरं पानसञ्च तथैव च । ऐक्षवं मधुकं टाङ्कं तालञ्चैव च माक्षिकम् । द्राक्षन्तु दशमं ज्ञेयं गौडं चैकादशं स्मृतम् । पैष्टन्तु द्वादशं प्रोक्तं सर्वेषामधमं स्मृतम् । मध्यमं मधुजं गौडं शेषञ्चोत्तममिष्यते । एतत् द्वादशकं मद्यं न पातव्यं द्विजैः क्वचित् । क्षत्रि- यादिः विवेत् सर्वं पैष्टीमेकन्तु वर्जयेत् । सुरां पीत्वा द्विजो मोहात् कामात् तक्रादिमिश्रिताम् । त्रैवार्षिकं व्रतं कुर्य्यादीषन्मिश्रे तु वार्षिकम् । तक्रादिमिश्रितां किञ्चित् सुरां पीत्वा ह्यकामतः । कृच्छ्राव्दपाद्यमुच्चर्य्य पुनः संस्कारमर्हति । मुखप्रवेशमात्रे तु प्रायश्चित्तार्द्ध- माचरेत् । अनुपनीतो देवेशि! व्रतं त्रैवार्षिकं चरेत् । चतुर्थकालाहारी स्याद् ब्रह्मचर्य्यमथापि वा । आपञ्च वर्षं पतं वा ज्ञानादशं विनिर्दिशेत् । शूद्रस्य च विशेषेण अतिकृच्छ्रद्वयं चरेत् । स्वजातिसाधिते तस्मिन् तदर्द्धं व्रतमाचरेत् । पैष्ठीपाने व्राह्मणस्य मरणान्तिक- सुच्यते । माध्वीगौडीसुरापाने द्वादशाब्दं विधी- यते । इतरेषान्तु पानेन शुद्धिश्चान्द्रायणेन तु । राजन्य- वैश्ययोश्चापि गौडी माध्वी न शस्वते । मोहात् क्षात्रश्च वैश्यश्च पीत्वा कृच्छ्रद्वयं चरेत् । शूद्रोऽपि गौडीं पैष्टीञ्च न पिवेद्धीनसंस्कृताम् । कामात् पीत्वा सुरां विप्रो मरणान्तिकमाचरेत् । चरेच्चान्द्रायणं ज्ञानात् क्षत्रियो वैश्य एव च । षैष्टीपाने तु शूद्रस्य प्राजा- प्रत्यं विनिर्दिशेत् । ज्ञानादभ्यासयोगे तु चान्द्रायण- त्रयं स्मृतम् । नारिकेलं तथा ज्ञानाद्विप्रश्चान्द्रायणेन तु । क्षत्रियश्चैव वैश्यश्च प्राणायामेन शुध्यति । अपक्वं पानसञ्चैव आम्रञ्च वदरं तथा । स्थापयित्वा घटे नित्यं दद्यादामपयः पलम् । त्रैलौक्यविजयाञ्चैव मातुलङ्गं तथैव च । समेऽहनि ततो दद्यात् सन्धा- नात् सत्त्वमीरितम् । दधि मधु घृतञ्चापि माञ्जिष्ठं तिक्तकं तथा । अनुपाने तु देवेशि! द्राक्षमद्यं सुनि- श्चितम् । विडङ्गं शालयो मूलं समभागेन योजितम् । मधुना सह संस्थाप्य शेषपाकं समाचरेत् । पिप्पलीलवणं दत्त्वा मधुना मद्यमीरितम् । पानसं पक्वखर्जूरमार्द्रं सोमलतारसम् । पकीकृत्याग्निसन्धानात् खार्जूरं मद्यमी- रितम् । पक्वतालं दन्तिशाकं ककुभञ्च तथैव च । एतैरेव सुसन्धानात् तालमद्यं प्रकीर्त्तितम् । इक्षुदण्डं मरीचञ्च बदरञ्च तथा दधि । शेषे तु लवणं दत्त्वा । इक्षुमद्यं प्रकीर्त्तितम् । नवं मधु तथा विल्वं पक्वं शर्करया सह । सन्धानाज्जायते मद्यं माध्वीकं शरतो रसम् । शता- वरी टङ्कमूलं लक्ष्मणं पद्ममेव च । मधुना सह सन्धा- नात् टङ्कमाध्वीकमीरितम् । मालूरमूलं वटरी शर्करा च तथैव च । एषामेकत्र सन्धानात् मैरेयं मद्यमीरि- तम् । इन्द्रजिह्वा पक्वनात्री नारिकेलजलन्तथा । कदली- फलसन्धानन्मद्य तन्नारिकेलजम् । दधि त्रैलोक्यविजया तथैव च करीकणा । गुडेव सह सन्धानात् गौडीमद्यं प्रकीर्त्तितम् । शस्कुलीमर्द्धसिद्धान्नमुष्णोदकसमन्विवम् । वह्नौ सन्तापयेत् किञ्चित् स्थापयित्वा दिनद्वयम् । शेपेऽहनि तु संज्ञाप्ते जीवनं तत्र निःक्षिपेत् । शृङ्गवेर मरीचञ्च मातुलङ्गं तथैव च । एतेषामेव सन्धानात् पैष्टीमद्यं प्रकीर्त्तितम्” मत्स्यसूक्ते १६ पटले । “सिद्धमन्त्री भवेद्वीरो न वीरी मद्यपानतः । कलौ तु भारते वर्षे लोका भारतवासिनः । गृहे गृहे सुरां पीत्वा वर्णभ्रष्टा भवन्ति हि” उत्पत्तितन्त्रे ६४ पटले । “दीव्यवीरमयो भावः कलौ नास्ति कदाचन । केवलं पशुभावेन मन्त्रसिद्धि- र्भवेन्नृणाम्” महानिर्वाणतन्त्रम् । “न दद्याद् ब्राह्मणो मद्यं महादेव्यै कथञ्चन । वामकामो ब्राह्मणो हि मद्यं मांसं न भक्षयेत्” तन्त्रम् । भैरवतन्त्रे “नारिकेलोदकं कांस्ये ताम्रे गव्यं तथा मधु । राजन्यवैश्ययोर्देयं न द्विजस्य कदाचन । एवं प्रदानमात्रेण हीनायु- ब्राह्मणो भवेत्” । कलौ मद्यपानादिनिषेधो यथा याज्ञवल्क्यदीपकलिकायां ब्रह्मपु० “नराश्वमेधौ मद्यञ्च कलौ वर्ज्या द्विजातिभिः” निषेधविषयं स्पष्टयति उशना “मद्यमदेयमपेयमनिर्ग्राह्यम्” । अनि- र्ग्राह्यमस्वीकार्य्यमिति कल्पतरुः । कालिकापु० । “ख- गात्ररुधिरं दत्त्वा आत्महत्यामवाप्नुयात् । मद्यं दत्त्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते” । स्व तिः “ताम्रे चेक्षुरसो मद्यं पयसा यवचूर्णकम् । गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना” । अतो मद्यप्रतिनिधिदानमपि न युक्तम्” ति० त० रघु० । मद्य- तुल्यं यथा “नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु । गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना” कर्मलोचनम् ।


शब्दकल्पद्रुमः

मद्यं || क्ली (माद्यति जनोऽनेन । मद् + “गदमद- यमश्चानुपसर्गे ।” ३ । १ । १०० । इति करणे यत् ।)
सुरा । इत्यमरः । २ । १० । ४० ॥ (यथा, साहित्यदर्पणे । “भिक्षो ! मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना मद्यञ्चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौर्य्येण बा, एतावानपि संग्रहोऽस्ति भवतो नष्टस्य कान्या गतिः ॥”)
अस्य गुणपर्य्यायौ मदिराशब्दे द्रष्टव्यौ ॥ * ॥
तत् द्वादशविधं यथा पुलस्त्यः । “पानसं द्राक्षमाधूकं खार्ज्जूरं तालमैक्षवम् । माध्वीकं टाङ्कमाध्वीकं मैरेयं नारिकेलजम् ॥ समानानि विजानीयान्मद्यान्येकादशैव तु । द्वादशस्तु सुरा मद्यं सर्व्वेषामधमं स्मृतम् ॥” अनेन एकादशानां सुरात्वं निषेधयति मद्यशब्दो मदहेतुद्रव्यवचनः । अस्मादेव वचनात् नतु मद्यमात्रं सुराशब्दार्थः । यथा बृहस्पतिः । “गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समा- चरेत् । तप्तकृच्छं पराकञ्च चान्द्रायणमनुक्रमात् ॥” त्रयाणां सुरात्वे क्रमेण प्रायश्चित्तत्रयं न स्यात् । तथा भविष्ये । “सुरा तु पैष्ठी मुख्योक्ता न तस्यास्त्वितरे समे ।” पैष्टीति तण्डुलविकारमात्रोपलक्षणं इतरे गौडीमाध्व्यौ अतोऽन्नविकार एव सुराशब्दस्य मुख्यत्वात् त्रिविधा सुरेति गौडीमाध्व्योर्गौण- सुरात्वज्ञापनार्थम् । तेन एतत्पानेऽपि महा- पातकत्वमतिदिशति यथैवैका तथा सर्व्वा इति पैष्ट्यां पूर्ब्बप्रसिद्ध्वं दर्शयति । यथा पैष्टी सुरा तथा सर्व्वा गौडी माध्वी चेति पूर्ब्बवचनोक्ता तु पैष्टी दृष्टान्तत्वेनात्र दर्शिता । न पातव्या द्विजोत्तमैरिति ब्राह्मणैरित्यर्थः । त्रैवर्णिकपरत्वे उत्तमपदानर्थक्यात् बहवचनानर्थक्यपरी- हारार्थमुत्तमप्रातिपदिकानर्थक्यमयुक्तं अतो ब्राह्मणस्य त्रिविधैव सुरा महापातकहेतुः । क्षत्त्रियवैश्ययोस्तु सुरा वै मलमन्नानामिति वचनेन पैष्ट्यैव इति स्थितम् । अतएव । “एका माध्वी च गौडी च पैष्टी च त्रिविधा सुरा । द्विजातिभिर्न पातव्या कदाचिदपि कर्हिचित् ॥” इति यमवचने द्विजातिपदं ब्राह्मणपरमेव । अत एव द्विविधसुरापाने न क्षत्त्रियादीनां महापातकम् ॥ * ॥
तावदस्तु । दोषाभावमेवाह वृद्धयाज्ञवल्क्यः । “कामादपि हि राजन्यो वैश्यो वापि कथञ्चन । मद्यमेव सुरां पीत्वा न दोषं प्रतिपद्यते ॥” तदेवं पैष्टीनिषेधस्त्रैवर्णिकानां गौडीमाध्वीनि- षेधन्तु व्राह्मणानामेव ॥ * ॥
तज्जातेः स्त्रीणा- मपि सुरापाननिषेधः । यथा भविष्ये । “तस्मान्न पेयं विप्रेण सुरा मद्यं कथञ्चन । ब्राह्मण्यापि न पेया वै सुरा पापभयावहा ॥” “या ब्राह्मणी सुरापी स्यान् न तां देवाः पतिलोकं नयन्ति ॥” इति श्रुतिः ॥ “पतत्यर्द्धशरीरेण भार्य्या यस्य सुरां पिवेत् । पतितार्द्धशरीरस्य निष्कृतिर्नोपपद्यते ॥” न चैवं क्षत्त्रियवेश्यस्त्रीणामनिषेधः । ब्राह्मणी- पदस्य निषिद्धसुरापानकर्त्तृभार्य्योपलक्षणत्वाद्- भार्य्या यस्य सुरां पिबेदिति सामान्यश्रवणाच्च ॥ पानञ्च द्रवीभूतस्याभ्यवहारः । स च कण्ठदेशा- दधोनयनं न तु वक्त्रमात्रप्रवेशः । निष्ठीवनार्थं कपोलधारणे पानशब्दप्रसङ्गात् । यच्चोक्तम् । “जिघ्रन्नहि सुरां कश्चित् पिबतीत्यभिधीयते । यावन्न क्रियते वक्त्रे गण्डूषस्य प्रवेशनम् ॥ अत्र गण्डूषप्रमाणं अविवक्षितम् । गण्डूषा- र्द्धपानेऽपि लोके पानशब्दप्रयोगात् । अतएव मुखप्रवेशनं अत्राविवक्षितं किन्तु मुखप्रवेशे कण्ठादधोनयनं भवति अतस्तदेवोपलक्षयति । अतएव ओष्ठमात्रलेपे न पाननिष्पत्तिः । अत- स्तत्रोत्तमाङ्गस्पर्शप्रायश्चित्तम् ॥ * ॥
अथ सरापानप्रायश्चित्तम् । तत्र मनुः । “सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् । तया सकाये निर्दग्धे मुच्यते किल्विषात्ततः ॥ गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा । पयो घृतं वामरणात् गोसकृद्रसमेव वा ॥” अग्निवर्णां अग्निसमस्पर्शाम् । पयो घृतं गोरेव आदावन्ते च गोः कीर्त्तनात् । मोहशब्दोऽत्र बुद्धिपरः । देवलः । सुरापाने ब्राह्मणो रूप्य- ताम्रसीसकानामन्यतममग्निकल्पं पीत्वा शरीर- त्यागात् पूयते । रूप्यादयोऽत्र द्रवीभूताः पीत्वेति निर्द्देशात् । स्वयमशक्तावन्यैरपि मुखे सेचनीया । यथा गोतमः । सुरापस्य ब्राह्मणस्य उष्णामासिञ्चेयुः सुरामास्ये मृतः शुध्येत । अतएव न सेचकानां वधो विहितत्वात् स्वयं पान इव । एतच्च मरणप्रायश्चित्तं कामकृते । यथा, बृहस्पतिः । “सुरापाने कामकृते ज्वलन्तीं तां विनिःक्षिपेत् । मुखे स हि विनिर्द्दग्धो मृतः शुद्धिमवाप्नुयात् ॥” कथञ्चिदिति सकृदित्यर्थः । अङ्गिराः । सुरापानं सकृत् कृत्वा योऽग्निवर्णां सुरां पिबेत् । स पावयेदथात्मानमिह लोके परत्र च ॥” भविष्ये । “मतिपूर्ब्बं सुरापाने प्राणान्तिकमुदाहृतम् । पैष्टीपाने तु ऋषिभिर्नेतरासां कथञ्चन ॥ शङ्खेनापि महाबाहो ! प्रायश्चित्तमुदाहृतम् । सुरायाः कामतः पाने मुख्यायाः प्राणनाशनम् ॥” पुनःपुनःपैष्टीविषयत्वाभिधानम् । त्रिविधा सुरा भुख्या इति भ्रमनिरासार्थम् । कथञ्चन सकृ- दित्यर्थः । * । इतरासां असुराणां गौडी- माध्वीप्रभृतीनां ज्ञानतः सकृत्पाने मरणान्तिकं न भवति गौडीमाध्व्योस्तु ज्ञानतोऽभ्यस्तपाने गौडीमाध्वीव्यतिरिक्तायास्त्वसुराया अत्यन्ता- भ्यस्तपाने मरणमुक्तं भविष्ये । “गौडीमाध्व्योस्तथाभ्यासे प्राणान्तिकमुदा- हृतम् । अभ्यासे त्वसुरायास्तु तामेवाग्निनिभां पिबेत् ॥” तथेति ज्ञानत इत्यर्थः । अतएव । “असकृत् ज्ञानतः पीत्वा वारुणीं पतति द्विजः । मरणं तस्य निर्द्दिंष्टं प्रायश्चित्तं विधीयते ॥” इति यमवचनमपि एतद्विषयमेव अत्राभ्यासे मरणविधानात् द्वितीयवार एव मरणं कार्य्यम् । गौडीमाध्व्योः कामतः सकृत्पाने भविष्ये । “असुरामद्यपाने तु कृते विप्रस्तु कामतः । चान्द्रायणं समभ्यस्येत् शुद्धिकामः स्वशुद्धये ॥ यद्वास्मिन्नेव विषये मानवीयं प्रकल्पयेत् । कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ॥ सुरापानापनुत्यर्थं बालवासा जटी ध्वजी ।” पिण्याकं खलिम् ॥ * ॥
उत्तप्तसुरापानं आय- सेन पात्रेण इत्याह यमः । “आयसे भाजने तप्तां ब्राह्मणीं वारुणीं पिबेत् ॥” गोवालचीरवाससा तत् कर्त्तव्यं आह उशनाः । गोवालचीरवासाः सुरापः सुरामग्निवर्णां पीत्वा पूतो भवति ॥ * ॥
अज्ञानतः सकृत्- पैष्टीपाने ब्राह्मणस्य द्वादशवार्षिकम् । यथा ब्रह्महत्याव्रतानुवृत्तौ यमः । “चरेतामेतदेवोभौ सुरापगुरुतल्पगौ । सगोत्रादूषकश्चैव सुवर्णस्तेयकृन्नरः ॥” * ॥
भविष्ये । “अकामतः सुरां पीत्वा पैष्टीं मत्कुलनन्दन ! । कृच्छ्रातिकृच्छ्रौ कृत्वा वै पुनःसंस्कारतः शुचिः ॥ कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि । सुरापानापनुत्यर्थं बालवासा जटी ध्वजी ॥” सुरापानमात्रापनेयरोगस्य रोगिणोऽज्ञानतः पानविषयमिदं इत्युक्तं भविष्ये । यथा, —
“तथास्मिन्नेव विषये वाशिष्ठं परिकीर्त्तितम् । यदि रोगैर्भवेद्दःस्थो नेतरस्य कदाचन ॥ कृच्छ्रश्चात्र सुरश्रेष्ठ ! तप्तकृच्छ्र उदाहृतः ।” कृच्छ्रातिकृच्छ्रावित्यत्र कृच्छ्रपदं न प्राजापत्य- परं किन्तु तप्तकृच्छ्रपरम् । * । अज्ञानतो गौडीमाध्व्योः सकृत्पाने उक्तं भविष्यपुराणे । “सकृत् पीत्वा तथा गौडीमज्ञानात् सुरसत्तम ! । कृच्छ्रातिकृच्छ्रौ विहितौ घृतप्राशनमेव च ॥” अज्ञानाभ्यासे तत्रैवोक्तम् । “गौडीमज्ञानतः पीत्वा ब्राह्मणो ब्राह्मणप्रिय ! । तप्तकृच्छ्रन्तु वै कृत्वा पुनःसंस्कारतः शुचिः ॥ माध्वीं पीत्वा महाबाहो ! अज्ञानाद् द्बिज- सत्तमः । शुद्ध्येत तप्तकृच्छेण विकर्म्माभ्यासनात्तथा ॥ रेतोमूत्रपुरीषाणां गौडीमाध्व्योश्च प्राशने । क्रव्यादपशुविष्ठानां संस्काराच्छुद्धिरिष्यते ॥” प्राणान्तिके च पादहानेरसम्भवात् क्षत्त्रिय- वैश्ययोरपि यथोक्तं मरणान्तिकं प्रायश्चित्तमेव । द्वादशवार्षिकादौ पादपादहानिरभक्ष्यभक्षणे क्षत्त्रियादीनां ह्रासदर्शनात् । “विप्रे तु सकलं देयं पादोनं क्षत्त्रिये मतम् । वैशेऽर्द्धं पादशेषन्तु शूद्रजातिषु शस्यते ॥” पानसादिमद्यपाने तु कामनाकृतानेकसमया- भ्यस्ते प्राणान्तिकं युक्तं ब्राह्मणस्य कामनया सकृत्कृते तु पराशरः । “अगम्यागमने चैव मद्यगोमांसभक्षणे । शुद्ध्यै चान्द्रायणं कुर्य्यात् नदीं गत्वा समुद्रगाम् ॥ चान्द्रायणे ततश्चीर्णे कुर्य्याद्ब्राह्मणभोजनम् । अनडुत्सहितां गाञ्च दद्याद्विप्राय दक्षिणाम् ॥” अकामतः सकृत्पाने विष्णुः । “पीत्वा प्रमादतो मद्यमतिकृच्छ्रं चरेद्द्विजः । कारयेत् पुनःसंस्कारं भक्त्या विप्रांश्च भोजयेत् ॥” कामतोऽकामतश्चाभ्यासे व्रतावृत्तिमाह यमः । “गोघ्नवद्बिहितः कल्पश्चान्द्रायणमथापि वा । अभ्यासे तु तयोर्भूयस्ततः शुद्धिमवाप्नुयात् ॥” अपर्य्युषितपानसाद्येकादशविधमद्यपाने त्रिरा- त्रम् । पानसं द्राक्षमाधूकमित्याद्यभिधाय पुलस्त्यः । “द्राक्षेक्षुटङ्कखर्ज्जूरपनसादेश्च यो रसः । सद्योजातन्तु तं पीत्वा त्र्यहात् शुद्ध्येत् द्विजो- त्तमः ॥” प्रयोजकादीनां पादपादहानिर्द्रष्टव्या । बाल- वृद्धस्त्रीणामर्द्धादिकं प्रायश्चित्तम् । इति प्राय- श्चित्तविवेकः ॥ * ॥
अथ पुराणे ब्राह्मणस्य मद्यपानादिनिषेधो यथा, —
“अध्रेयञ्चाप्यपेयञ्च तथैवास्पृश्यमेव च । द्विजातीनामनालोच्यं नित्यं मद्यमिति स्थितम् ॥ तस्मात् सर्व्वं प्रयत्नेन मद्यं नित्यं विवर्ज्जयेत् । पीत्वा पतति कर्म्मभ्यस्त्वसम्भाष्यो द्विजोत्तमः ॥ भक्षयित्वाप्यभक्षाणि पीत्वापेयान्यपि द्विजः । नाधिकारी भवेत्तावद्यावत्तन्न जहात्यधः ॥ तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः । अपेयानि च विप्रो वै पीत्वा तद्याति रौरवम् ॥” इति श्रीकूर्म्मपुराणे उपविभागे १६ अध्यायः ॥ मद्यपस्य विष्णोरुपसर्पणे दोषादि यथा, — वराह उवाच । “मद्यं पीत्वा वरारोहे ! यस्तु मामुपसर्पति । तत्र दोषं प्रवक्ष्यामि शृणु सुन्दरि ! तत्त्वतः ॥ दत्त्वा वर्षसहस्राणि दरिद्रो जायते पुनः । ततो भवेत् स पूतात्मा मद्भक्तश्च न संशयः ॥ यस्तु भागवतो भूत्वा कामरागेण मोहितः । दीक्षितो पिबते मद्यं प्रायश्चित्तं न विद्यते ॥ अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ! । अग्निवणां सुरां पीत्वा तेन मुच्येत किल्विषात् ॥ एवञ्चैवापराधानि येन मुच्यन्ति किल्विषात् । य एतेन विधानेन प्रायश्चित्तं समाचरेत् । न स लिप्यति पापेन संसारञ्च न गच्छति ॥ इति वराहपुराणे मद्यपानापराधप्रायश्चित्तम् ॥ अपि च । “अगम्यागमनं कृत्वा मद्यगोमांसभक्षणम् । शुद्ध्येच्चान्द्रायणाद्बिप्रः प्राजापत्येन भूमिपः । वैश्यः सान्तपनाच्छूद्रः पञ्चाहोभिर्व्विशुद्ध्यति ॥” इति गारुडे २२ अध्यायः ॥ एतद्गौडीमाध्व्योः कामतः सकृत्पानविषयमिति प्रायश्चित्तविवेकदर्शनात् ॥ * ॥
द्बिजस्य पूजादौ मद्यदानविध्यनुकल्पनिषेधा यथा, —
“मदिरां पृष्ठतो दद्यात् अन्यत् पानन्तु वामतः । अवश्यं विहितं यत्र मद्यं तत्र द्विजः पुनः ॥ नारिकेलजलं कांस्ये ताम्रे च विसृजेन्मधु । नापद्यपि द्विजो मद्यं कदाचित् विसृजेदपि ॥ ऋते पुष्पासवादुक्ताद्व्यञ्जनाद्वा विशेषतः । राजपुत्त्रस्तथा मर्त्यः सचिवः सौप्तिकादयः ॥ दद्युर्नरवलिं भूपसम्मत्या विभवाय च । भूपालानुमते मद्यं ददत् पापमवाप्नुयात् ॥” इति कालिकापुराणे ६६ अध्यायः ॥ अथ ब्राह्मणस्य मद्यपाननिषेधकशुक्रशापो यथा, वैशम्यायन उवाच । “सुरापानाद्वञ्चनां प्राप्य विद्वान् संज्ञानाशं प्राप्य चैवातिघोरम् । दृष्ट्वा कचञ्चापि तथाभिरूपं पीतं तथा सुरया मोहितेन ॥ समन्युरुत्थाय महानुभाव- स्तदोशना विप्रहितं चिकीर्षुः । काव्यः खयं वाक्यमिदं जगाद सुरापानं प्रति वै जातशङ्कः ॥ यो ब्राह्मणोऽद्यप्रभृतीह कश्चित् मोहात् सुरां पास्यति मन्दबुद्धिः । अपेतधर्म्मो ब्रह्महा चैव स स्या- दस्मिँल्लोके गर्हितः स्यात् परे च । मया चेमां विप्रधर्म्मोक्तसीमां मर्य्यादां वै स्थापितां सर्व्वलोके । सन्तो विप्राः शुश्रुवांसो गुरूणां देवा लोकाश्चोपशृण्वन्तु सर्व्वे ॥” इति महाभारते आदिपर्व्वणि ७९ अध्यायः ॥ अथ तन्त्रे मद्यपाननिषेधो यथा, —
“नारिकेलञ्च खार्ज्जूरं पानसञ्च तथैव च । ऐक्षवं मधुकं टाङ्कं तालञ्चैव च माक्षिकम् ॥ द्राक्षन्तु दशमं ज्ञेयं गौडं चैकादशं स्मृतम् । पैष्टन्तु द्वादशं प्रोक्तं सर्व्वेषामधमं स्मृतम् ॥ मध्यमं मधुजं गौडं शेषञ्चोत्तममिष्यते । एतत् द्वादशकं मद्यं न पातव्यं द्विजैः क्वचित् । क्षत्त्रियादिः पिबेत् सर्व्वं पैष्टीमेकान्तु वर्ज्जयेत् ॥ सुरां पीत्वा द्विजो मोहात् कामात् तक्रादि- मिश्रिताम् । त्रैवाषिकं व्रतं कुर्य्यादीषन्मिश्रे तु वार्षिकम् ॥ तक्रादिमिश्रितां किञ्चित्सुरां पीत्वा ह्यकामतः । कृच्छ्राब्दपादमुच्चर्य्य पुनः संस्कारमर्हति ॥ मुखप्रवेशमात्रन्तु प्रायश्चित्तार्द्ध्वमाचरेत् । अनुपनीतो देवेशि ! व्रतं त्रैवार्षिकं चरेत् ॥ चतुर्थकालाहारी स्याद्ब्रह्मचर्य्यमथापि वा । आ पञ्च वर्षं वृद्धं वा ज्ञानादर्द्धं विनिर्द्दिशेत् ॥ शूद्रस्य च विशेषेण अतिकृच्छ्रद्वयं चरेत् । स्वजातिसाधिते तस्मिन् तदर्द्धं व्रतमाचरेत् ॥ पैष्टीपाने ब्राह्मणस्य मरणान्तिकमुच्यते । माध्वीगौडीसुरापाने द्वादशाब्दं विधीयते ॥ इतरेषान्तु पानेन शुद्धिश्चान्द्रायणेन तु । राजन्यवैश्ययोश्चापि गौडी माध्वी न शस्यते । मोहात् क्षत्त्रश्च वैश्यश्च पीत्वा कृच्छ्रद्बयं चरेत् ॥ शूद्रोऽपि गौडीं पैष्टीञ्च न पिबेद्धीनसंस्कृताम् । कामात् पीत्वा सुरां विप्रो मरणान्तिकमाचरेत् ॥ चरेच्चान्द्रायणं ज्ञानात् क्षत्त्रियो वैश्य एव च । पैष्टीपाने तु शूद्रस्य प्राजापत्यं विनिर्द्दिशेत् ॥ ज्ञानादभ्यासयोगे तु चान्द्रायणत्रयं स्मृतम् । नारिकेलं तथा ज्ञानाद्विप्रश्चान्द्रायणेन तु । क्षत्त्रियश्चैव वैश्यश्च प्राणायामेन शुध्यति ॥ अपक्वं पनसञ्चैव आम्रञ्च वदरं तथा । स्थापयित्वा घटे नित्यं दद्यादामपयःपलम् ॥ त्रैलोक्यविजयाञ्चैव मातुलङ्गं तथैव च । समेऽहनि ततो दद्यात् सन्धानात् सत्वमीरितम् ॥ दधि मधु घृतञ्चापि माञ्जिष्ठं तिक्तकं तथा । अनुपाने तु देवेशि ! द्राक्षमद्यं सुनिश्चितम् ॥ विडङ्गं शालवो मूलं — । मधुना स्रह संस्थाप्य शेषपाकं समाचरेत् ॥ पिप्पलीलवणं दत्त्वा मधुना मद्यमीरितम् । पानसं पक्वखर्ज्जूरं आर्द्रं सोमलतारसम् । एकीकृत्याग्निसन्धानात् खार्ज्जूरं मद्यमीरितम् ॥ पक्वतालं दन्तिशाकं ककुभञ्च तथैव च । एतैरेव सुसन्धानात् तालमद्यं प्रकीर्त्तितम् ॥ इक्षुदण्डं मरीचञ्च वदरञ्च तथा दधि । शेषे तु लवणं दत्त्वा इक्षु मद्यं प्रकीर्त्तितम् ॥ नवं मधु तथा विल्वं पक्वं शर्करया सह । सन्धानाज्जायते मद्यं माध्वीकं शरतो रसम् ॥ शतावरी टङ्कमूलं लक्ष्मणं पद्ममेव च । मधुना सह सन्धानात् टङ्कमाध्वीकमीरितम् ॥ मालूरमूलं वदरी शर्करा च तथैव च । एषामेकत्र सन्धानात् मैरेयं मद्यमीरितम् ॥ इन्द्रजिह्वा पक्वधात्री नारिकेलजलन्तथा । कदलीफलसन्धानान्मद्यं तन्नारिकेलजम् ॥ दधि त्रैलोक्यविजया तथैव च करीकणा । गुडेन सह सन्धानात् गौडीमद्यं प्रकीर्त्तितम् ॥ शस्कुलीमर्द्धसिद्ध्वान्नपुष्णोदकसमन्वितम् । वह्नौ सन्तापयेत् किञ्चित् स्थापयित्वा दिनद्वयम् ॥ शेषेऽहनि तु संप्राप्ते जीवनं तत्र निःक्षिपेत् । शृङ्गवेरं मरीचञ्च मातुलङ्गं तथैव च । एतेषामेव सन्धानान् पैष्टीमद्यं प्रकीर्त्तितम् ॥” इति श्रीमत्स्यसूक्ते महातन्त्रे चतुर्व्विंशति- साहस्रे ३६ पटलः ॥ * ॥
अपि च । “सिद्धमन्त्री भवेद्वीरो न वीरो मद्यपानतः । कलौ तु भारते वर्षे लोका भारतवासिनः ॥ गृहे गृहे सुरां पीत्वा वर्णभ्रष्टा भवन्ति हि ॥” इति उत्पत्तितन्त्रे ६४ पटलः ॥ * ॥
“दिव्यवीरमयो भावः कलौ नास्ति कदाचन । केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम् ॥” इति महानिर्व्वाणतन्त्रम् ॥ * ॥
श्रीक्रमे । “न दद्याद् ब्राह्मणो मद्यं महादेव्यै कथञ्चन । वामकामो ब्राह्मणो हि मद्यं मांसं न भक्षयेत् ॥ भैरवतन्त्रे । “नारिकेलोदकं कांस्ये ताम्रे गव्यं तथा मधु । राजन्यवैश्ययोर्देयं न द्विजस्य कदाचन ॥ एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत् । इति आगमतत्त्वविलासः ॥ * ॥
स्मृतौ कलौ मद्यपानादिनिषेधो यथा, याज्ञ- वल्क्यदीपकलिकायां ब्रह्मपुराणम् । “नराश्वमेधौ मद्यञ्च कलौ वर्ज्ज्या द्विजातिभिः ॥” निषेधविषयं स्पष्टयति उशनाः । “मद्यमदेयम- पेयमनिर्ग्राह्यम् ।” अनिर्ग्राह्यमस्वीकार्य्यमिति कल्पतरुः ॥ कालिकापुराणेऽपि । “स्वगात्ररुधिरं दत्त्वा आत्महत्यामवाप्नुयात् । मद्यं दत्त्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते ॥” स्मृतिः । “ताम्रे चेक्षुरसो मद्यं पयसा यवचूर्णकम् । गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना ॥ अतो मद्यप्रतिनिधिदानमपि न युक्तम् । इति तिथ्यादितत्त्वम् ॥ * ॥
मद्यतुल्यं यथा, —
“नारिलेकोदकं कांस्ये ताम्रपात्रे स्थितं मधु । गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना ॥” इति कर्म्मलोचनः ॥ * ॥
अथ मद्यपानां तुष्ट्यर्थं कौलानां मद्यपानविधि- र्लिख्यते । “कुलाचाररतो वीरः कुलसङ्गी सदा भवेत् । सम्बिदासेवनं कुर्य्यात् सोमपानं महेश्वरि ! ॥ सर्व्वथा कुरुते देवि ! वीरश्चोद्धतमानसः । दिव्यस्तु देवताप्रायश्चन्दनागुरुलेपनैः ॥ रक्तचन्दनगन्धैश्च सुदिग्धो नात्र संशयः । भस्माङ्गधूसरो वीर उन्मत्तवद्विचेष्टितः ॥ सुरापानरतो नित्यं बलिपूजापरायणः । नरश्छागश्च महिषो मेषः शूकर एव च ॥ शशकः शल्लकी गोधा खड्गी कूर्म्मो दश स्मृताः । वानरश्च खरश्चैव गजाश्वादिविहङ्गमाः ॥ इत्यादेस्तु बलेर्द्दानैः पूजयेत् स्वेष्टदेवताम् । नित्यं नैमित्तिकं काम्यं प्रकुर्य्याच्च दिने दिने ॥ कुलवारे कुलर्क्षे च तिथौ च कुलके तथा । भैरव्याः कल्पितं चक्रं संस्थाप्य पूर्व्ववत् प्रिये ! । सुराणां शोधनं कुर्य्याद्यथावत् परमेश्वरि ! ॥ प्रवृत्ते भैरवीचक्रे सर्व्वे वर्णा द्विजोत्तमाः । निवृत्ते भैरवीचक्रे सर्व्वे वर्णाः पृथक् पृथक् ॥ विजयाञ्चानुकल्पञ्च द्विजो दद्याद्युगे युगे ॥” इति उत्पत्तितन्त्रे ६३ पटलः ॥ “द्रव्याभावे चानुकल्प्यौः पूजयेत् परदेबताम् । सुराभावे च गोक्षीरं द्विजो दद्याद्युगे युगे ॥” इति निरुत्तरतन्त्रे ५ पटलः ॥ * ॥
“असंस्कृतां सुरां पीत्वा ब्राह्मणो ब्रह्महा भवेत् । संस्कृतान्तु सुरां पीत्वा ब्राह्मणो ज्वलदग्निवत् ॥ सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिबेत् सुराम् । अन्यत्र कामतः पीत्वा ब्राह्मण्यादेव हीयते ॥” इति उत्पत्तितन्त्रम् ॥ * ॥
“ब्राह्मणस्य महामोक्षं मद्यपाने प्रियंवदे ! । ब्राह्मणः परमेशानि ! यदि पानादिकं चरेत् । तत्क्षणात् शिवरूपोऽसौ सत्यं सत्यं हि शैलजे ! ॥ तोये तोयं यथा लीनं तैजसं तैजसे यथा । घटे भग्ने यथाकाशं बायौ वायुर्यथा प्रिये ! ॥ तथैव मद्यपानेन ब्राह्मणो ब्रह्मणि प्रिये । लीयते नात्र सन्देहः परमात्मनि शैलजे ! ॥ सायुज्यादिमहामोक्षं नियुक्तं क्षत्त्रियादिषु । मद्यपानं विना देवि ! तत्त्वज्ञानं ब लभ्यते ॥ अतएव हि विप्रस्तु मद्यपानं समाचरेत् ॥ वेदमाताजपेनैव ब्राह्मणो नहि शैलजे ! । ब्रह्मज्ञानं यदा देवि ! तदा ब्राह्मण उच्यते ॥ देवानाममृतं ब्रह्म तदेव लौकिकी सुरा । सुरत्वं भोगमात्रेण सुरा तेन प्रकीर्त्तिता ॥ मन्त्रत्रयं सदा पाठ्यं ब्रह्मशापादिमोचनम् । प्रकुर्य्यात्तु हि येनैव तदा ब्रह्ममयी मुरा ॥ हविरारोपमात्रेण वह्निर्दीप्तो यथा भवेत् । शापमोचनमात्रेण सुरा मुक्तिप्रदायिनी । अतएव हि देवेशि ! व्राह्मणः पानमाचरेत् ॥ स ब्राह्मणः स वेदज्ञः सोऽग्निहोत्री स दीक्षितः । बहु किं कथ्यते देवि ! स एव निर्गुणात्मकः ॥ मुक्तिमार्गमिदं देवि ! गोप्तव्यं पशुसङ्कटे । प्रकाशात् सिद्धिहानिः स्यात् निन्दनीयो न चान्यथा ॥” इति मातृकाभेदतन्त्रे ३ पटलः ॥ * ॥
“कुलस्त्रीसेवनं कुर्य्यात् सर्व्वथा परमेश्वरि ! । रमते युवतीं रम्यां कामोन्मत्तविलासिनीम् ॥ नटीं कापालिकां वेश्यां हड्डिपानां वराङ्गनाम् । शूद्राणीं म्लेच्छरमणीं जवनीं परमेश्वरि ! ॥ मातृयोनिविचारोऽस्ति मातृयोनिं विना प्रिये ! । कुलाचारपरो वीरः कुलपूजापरायणः ॥ भगलिङ्गसमायोगादाकृष्य जपमाचरेत् । निश्चलन्तु भवेच्चित्तं कोटिसूर्य्यग्रहेण किम् ॥ चले चित्ते भवेद्व्याधिर्निश्चले निश्चलं यथा । शवानां साधनं देवि ! लतासाधनमुत्तमम् ॥ चितायाः साधनं देवि ! सिद्बिरस्ति कलौ युगे ॥ इत्युत्पत्तितन्त्रम् ॥ कालिकातारिणीदीक्षां गृहीत्वा मद्यसेवनम् । न करोति नरो यस्तु स कलौ पतितो भवेत् ॥ वैदिके तान्त्रिके चैव जपहोमबहिष्कृतः । अब्राह्मणः स एवोक्तः स एव हस्तिमूर्खकः ॥ शुनीमूत्रसमं तस्य तर्पणं यत् पितृष्वपि । कालीतारामनुं प्राप्य वीराचारं करोति न ॥ शूद्रत्वं तच्छरीरेण प्राप्नुयात् स न चान्यथा ॥ इति कामाख्यातन्त्रे ५ पटलः ॥ मद्यशोधनप्रकारो यथा । शिव उवाच । शृणु पार्व्वति ! वक्ष्यामि तेषां वै शोधनक्रियाम् । पद्मासनेन संविश्य करपुटं समाचरेत् ॥ वामे गुरून्नमस्कृत्य दक्षिणे गणपतिं स्मरेत् । मध्ये देवीं नमस्कृत्य प्राणायामत्रयञ्चरेत् ॥ शरीरे मातृकां न्यस्य ऋष्यादिन्यासमाचरेत् । स्वकल्पोक्तविधानेन षडङ्गन्यासमाचरेत् ॥ पश्चाद्भूमौ त्रिकोणं वा षट्कोणं वा महे- श्वरि ! । विलिख्य मण्डलं शुद्धं तस्योपरि घटं न्यसेत् ॥ बहुधा प्रोक्षणं कृत्वा फट्कारेण पुनः पुनः । ततस्तस्मिन् कारणन्तु मूलेनैव च स्थापयेत् ॥ मातृकार्णेन देवेशि ! विपरीतेन चैव हि । पुनः फट्कारमन्त्रेण प्रोक्षणं कारयेत् सुधीः ॥ ततो वियच्छक्तिबीजं चतुर्द्दशस्वरान्वितम् । नादबिन्दुयुतं कृत्वा तस्योपरि शतं जपेत् ॥ ततो मूलं जपेन्मन्त्रं मायाबीजं ततः परम् । धेनुं योनिं गालिनीञ्च त्रिखण्डं मीनसंज्ञकम् । दर्शयित्वा वरारोहे ! घटं धृत्वा पठेन्मनुम् ॥ ॐएकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् । कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् ॥ ॐ सूर्य्यमण्डलसम्भूते वरुणालयसम्भवे । अमाबीजमये देवि ! शुक्रशापाद्विमुच्यताम् ॥ ॐ वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि । तेन सत्येन ते देवि ! ब्रह्महत्यां व्यपोहतु ॥ ततः षडङ्गयुक्तञ्च वकारं बिन्दुसंयुतम् । एवं सकारकञ्चापि वर्णाक्षरसमन्वितम् ॥ जप्त्वा मन्त्री ततो ध्यायेत् स्वमन्त्रं कुलसुन्दरि ! । आनन्दभैरवं ध्यायेद्यथा तन्त्रानुसारतः ॥ रक्तवर्णं चतुर्बाहुं त्रिनेत्रं वरदं शिवम् । जटाजूटधरं देवं वासुकीकण्ठभूषितम् ॥ डमरुञ्च कपालञ्च मुद्गरं पाशमुत्तमम् । धारिणं तं यजेद्देवं व्याघ्रचर्म्माम्बरं शिवम् ॥ एवं ध्यात्वा महेशानि ! तस्य मध्ये प्रपूजयेत् । मायाबीजं ततो हुं फट्मन्त्रेणानेन संत्यजेत् ॥ ततस्तस्मिन्महेशानि ! आनन्दभैरवीं स्मरेत् । आनन्दभैरवीं देवीं वराभयलसत्कराम् ॥ घोररूपां वरारोहां त्रिनेत्रां रक्तवाससम् । रक्तवर्णां महारौद्रीं सहस्रभैरवान्विताम् ॥ ब्रह्मविष्णुमहेशाद्यैः स्तूयमानां शिवां भजे । इति ध्यात्वा महेशानि ! तेनैव मनुना यजेत् ॥ तयोरैक्यं विभाव्यैव गायत्त्रीं दशघा जपेत् । भैरवं ङेऽन्तकञ्चोक्त्वा विद्महे तदनन्तरम् ॥ सुधादेव्यै ततः पश्चाद्धीमहीति ततो वदेत् । तन्नो देवी ततः पश्चात्तदन्ते च प्रचोदयात् ॥ इति ते कथिता देवी गायत्त्री परमाक्षरी । तस्याः स्मरणमात्रेण द्रव्यशुद्धिश्च जायते ॥ तस्य प्रसादादीशोऽहं सत्यं सत्यं न संशयः । तस्य मध्ये मूलमन्त्रं विल्वदण्डैर्लिखेत् सकृत् । रक्तवस्त्रेण संपूज्य सुधां वस्त्रेण गोपयेत् ॥ * ॥
धर्म्मार्थकाममोक्षाणां विषयाणाञ्च पार्व्वति ! । सर्व्वेषां कारणं यस्मात् कारणं परिकीर्त्तितम् ॥ अस्माकञ्च महेशानि ! शरीरकारणं हि तत् । मृत्युञ्जयोऽहं वीरेशि ! वीरकार्य्यप्रसादतः ॥ निर्व्विकारेण देवेशि ! निर्व्विकल्पेन चेतसा । सेव्यमानं कुलं भद्रे ! भुक्तिमुक्तिप्रदायकम् ॥ निर्व्विकल्पो महेशानि ! मुक्तिभागी न संशयः । सविकल्पो वरारोहे ! रौरवं याति निश्चितम् ॥” इति कैवल्यतन्त्रे २ पटलः ॥ (वैद्यकोक्तदोषादि यथा, —
“तीक्ष्णोष्णरूक्षसूक्ष्माम्लं व्यवायाशुकरं लघु । विकाशि विशदं मद्यमोजसोऽस्माद्बिपर्य्ययः ॥ तीक्ष्णादयो विषेऽप्युक्ताश्चित्तोपप्लाविनो गुणाः । जीवितान्ताय जायन्ते विषे तूत्कर्षवृत्तितः ॥ तीक्ष्णादिभिर्गुणैर्मद्यं मन्दादीनोजसो गुणान् । दशभिर्दशसंक्षोभ्य चेतो नयति विक्रियाम् ॥ आद्ये मदे द्वितीये स प्रमादायतने स्थितः । दुर्व्विकल्पहतो मूढः सुखमित्यधिमुच्यते ॥ मध्यमोत्तमयोः सन्धिं प्राप्य राजसतामसः । निरङ्कुश इव व्यालो न किञ्चिन्नाचरेज्जडः ॥ इयं भूमिरवद्यानां दौःशील्यस्येदमास्पदम् । एकोऽयं बहुमार्गाया दुर्गतेर्देशिकः परम् ॥ निश्चेष्टः शववच्छेते तृतीये तु मदे स्थिताः । मरणादपि पापात्मा गतः पापतरां दशाम् ॥ धर्म्माधर्म्मसुखं दुःखमर्थानर्थं हिताहितम् । यदासक्तो न जानाति कथं तच्छीलयेद्बुधः । मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संस्थितः ॥ सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः ॥ यत्रैकः स्मृतिविभ्रंशस्तत्र सर्व्वमसाधु यत् । अयुक्तियुक्तमन्नं हि व्याधये मरणाय वा ॥ मद्यं त्रिवर्गधीधैर्य्यलज्जादेरपि नाशनम् । नाति माद्यन्ति बलिनः कृताहारा महाशनाः ॥ स्निग्धाः सत्त्ववयोयुक्ता मद्यनित्यास्तदन्वयाः । मेदःकफाधिकामन्दवातपित्ता दृढाग्नयः ॥ विपर्य्ययेऽतिमाद्यन्ति विश्रध्वाः कुपिताश्च ये । मद्येन चाम्लरूपेण साजीर्णे बहु नाति च ॥” इति वाभटे निदानस्थाने षष्ठेऽध्याये ॥)
एतानि श्रुतिस्मृतिविरुद्धत्वान्मोहनार्थानिशिष्टैः कदाचिदपि नाचरणीयानि ॥



Correction: