वाचस्पत्यम्
मद्यपङ्क || पु० मद्यस्य पङ्क इव । सुराकल्के (मेओया) हेम० ।
शब्दकल्पद्रुमः
मद्यपङ्कः || पुं, (मद्यानां पङ्क इव ।) सुराकल्कः । मेया इति भाषा ॥ तत्पर्य्यायः । मेदकः २ जगलः ३ । इति हेमचन्द्रः । ३ । ५६८ ॥