वाचस्पत्यम्
मद्यबीज || न० ६ त० । किण्वादौ (वाखर्) मद्यकारणे पदार्थजाते हेमच० ।
शब्दकल्पद्रुमः
मद्यबीजं || क्ली (मद्यस्य बीजम् ।) नानाद्रव्यकृत- सुराबीजम् । तत्पर्य्यायः । किण्वम् २ नग्नहूः ३ नग्नहुः ४ । इति हेमचन्द्रः । ३ । ५६९ । वाखर इति भाषा ॥