वाचस्पत्यम्
मद्यवासिनी || स्त्री मद्यस्येव वासो गन्धो विद्यते बाहुल्ये नास्याः इनि । धातकीवृक्षे (धाइफुस) राजनि० ।
शब्दकल्पद्रुमः
मद्यवासिनी || स्त्री (मद्यानामिव वासो गन्धोऽस्या अस्तीति । इनिः ङीष् ।) धातकीवृक्षः । इति रत्नमालाराजनिर्घण्टौ ॥