शब्दकल्पद्रुमः
मद्रङ्करः || त्रि (मद्रं भद्रं करोतीति । कृ + “क्षेम- प्रियमद्रेऽण् च ।” ३ । २ । ४४ । इति चकारात् खच् । मुम् च ।) मङ्गलकारकः । यथा क्षेम- ङ्करोऽरिष्टतातिः स्यान्मद्रङ्करशङ्करौ । इति त्रिकाण्डशेषः ॥