शब्दकल्पद्रुमः
मद्वा || [न्] पुं, (माद्यतीति । मद् + “स्ना- मदिपद्यर्त्तिपॄशकिभ्यो वनिप् ।” उणा० ४ । ११२ । इति वनिप् ।)
शिवः । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ (मदनशीले, त्रि । यथा, ॠग्वेदे । ८ । ८१ । १९ । “इन्द्राय मद्वने सुतं परिष्टोभन्तु नो गिरः ॥”)
“मद्वने मदनशीलाय ।” इति तद्भाष्ये सायनः ॥