शब्दकल्पद्रुमः
मद्वर्ग्यः || त्रि (मद्वर्गस्यायमिति । “अशब्दे यत् खावन्यतरस्याम् ।” ४ । ३ । ६४ । इतिक्रमेण खछयत्प्रत्ययाः ।) मद्वर्गसम्बन्धी । इति सिद्धान्तकौमुदी ॥