शब्दकल्पद्रुमः
मधुकर्कटिका || स्त्री (मधुर्मधुरा कर्क्कटिकेव ।)
मधुरजम्बीरविशेषः । मौकट्टी इति भाषा । तत्पर्य्यायः । कुशा २ । इति शब्दचन्द्रिका ॥ (पर्य्यायोऽस्या गुणाश्च यथा, —
“बीजपुरोऽपरः प्रोक्तो मधुरो मधुकर्क्कटी । मधुकर्कटिका स्वाद्वी रोचनी शीतला गुरुः । रक्तपित्तक्षयश्वासकासहिक्काभ्रमापहा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मधुखर्ज्जूरिका । इति राजनिर्घण्टः ॥