शब्दकल्पद्रुमः
मधुकुक्कुटिका || स्त्री (मधुः मधुरा कुक्कुटीव । मधुकुक्कुट + स्त्रियां ङीष् । स्वार्थे कन् । स्त्रियां टाप् । पूर्ब्बस्य ह्रस्वत्वञ्च ।)
जम्बीरविशेषः । मखुर इति महूर इति च भाषा । तत्पर्य्यायः । मातुलुङ्गा २ सुगन्धा ३ गिरिजा ४ पूतिपुष्पिका ५ अत्यम्ला ६ देव- दूती ७ । इति रत्नमाला ॥ अस्या गुणाः । शीतत्वम् । स्वादुत्वम् । गुरुत्वम् । स्निग्धत्वम् । वातपित्तविनाशित्वञ्च । इति राजवल्लभः ॥