शब्दकल्पद्रुमः
मधुकैटभौ || पुं, (मधुश्च कैटभश्च तौ । इतरेतर- द्वन्द्वः ।)
असुरविशेषौ । तयोरुत्पत्त्यादि यथा, “दैनन्दिने तु प्रलये प्रसुप्ते गरुडध्वजे । तस्य श्रवणविड्जातावसुरौ मधुकैटभौ ॥ कूर्म्मपृष्ठगता पृथ्वी विलीनेवाभवज्जलैः । तां विशीर्णां योगनिद्रा महामाया व्यलोकयत् ॥ तां वै दृढतरां कर्त्तुं पृथ्वीं प्रति तदेश्वरी । उपायं चिन्तयामास कथं पृथ्वी भवेद्दृढा ॥ इदानीमाज्यवत् पृथ्वी प्रवृत्ता कोमला जलैः । सृष्टिकाले जनान् वोढुं कथं शक्ता भविष्यति ॥ इति सञ्चिन्त्य सा माता जगतां सृष्टिकारिणी । उपगम्य तदा विष्णुमाससाद सुनिद्रितम् ॥ तन्तु सुप्तं समासाद्य जगन्नाथं जगत्पतिम् । वामहस्तकनिष्ठाग्रं तस्य कर्णे न्यवेशयत् ॥ निवेश्य नखराग्रेण प्रोद्धृत्य श्रावणं मलम् । चूर्णीचकार सा देबी योगनिद्रा जगत्प्रसूः ॥ तत्कर्णमलचूर्णेभ्यो मधुनामासुरोऽभवत् । ततो दक्षिणहस्तस्य कनिष्ठाग्रन्तु दक्षिणे ॥ कर्णे न्यवेशवद्देवी तस्मादप्युद्धृतं मलम् । तच्चापि क्षोदयामास करशाखाग्रजेन तु ॥ ततोऽभूत् कैटभो नाम बलवानसुरो महान् ॥ उत्पन्नः स च पानार्थं यस्मान् मृगितवान्मधु । अतस्तस्य महादेवी मधुनामाकरोत्तदा ॥ उत्पन्नः कीटवद्भाति महामायाकरे यतः । अतस्तं कैटभाख्यन्तु स्वयं देवी तदाकरोत् ॥ ताबुवाच महामाया युध्यतां हरिणा सह । युवानौ श्रद्धयैवात्र भवन्तौ निहनिष्यति ॥ यदा युवां प्रभाषेथे आवां विष्णो ! वधान तौ । तदैवायं युवां हन्ता नान्यथा हरिरप्यथ ॥ महामायामोहितौ तौ विष्णुगात्रे तदा मुहुः । भ्रममाणौ ददृशतुर्नाभिपद्मस्थितं विधिम् ॥ तमूचतुस्तौ धातारं हनिष्यावोऽद्य नामितम् त्वं जागरय वैकुण्ठं यदि जीवितुमिच्छसि ॥ ततो ब्रह्मा महामायां योगनिद्रां जगत्प्रसूम् । प्रसादयामास तदा स्तुतिभिर्नतिभिर्भिया ॥ चिरं स्तुताथ सा देवी ब्रह्मणा जगदात्मना । प्रसन्नाभवदत्यर्थमुवाच च तथा विधिम् ॥ किमर्थं संस्तुता चाहं किं करिष्याम्यहं तव । तद्वद त्वं महाभाग ! करिष्याम्यहमद्य ते ॥ ततस्तेन प्तहामाया प्रोक्ता धात्रा महात्मना । प्रबोधय जगन्नाथं यावन्नो मां हनिष्यतः । संमोहयैतौ दुर्द्धर्षावसुरौ मधुकैटभौ ॥ इत्युक्ता सा तदा देवी ब्रह्मणा जगदात्मना । बोधयामास वैकुण्ठं मोहयामास तौ तदा ॥ ततः प्रबुद्धः कृष्णः स ददर्श भयशालिनम् । ब्रह्माणं तौ तदा घोरावसुरौ मधुकैटभौ ॥ ततस्ताभ्यां स युयुधे ह्यसुराभ्यां जनार्द्दनः । नाशकद् वाधितुं वीरावसुरौ मधुकैटभौ ॥ अनन्तोऽपि फणाग्रेण तान्नो धर्त्तुं क्षमोऽभवत् । युध्यमानान्महावीरान् वैकुण्ठमधुकैटभान् ॥ अथ ब्रह्मा शिलारूपां स्थितिशक्तिं तदाकरोत् । अर्द्धयोजनविस्तीर्णां सार्द्धयोजनमायताम् ॥ तस्यां शिलायां वैकुण्ठो युयुधे नृपसत्तम ! । सह ताभ्यां शिला सा तु प्रविवेश जलान्तरम् ॥ तस्यान्तु शक्त्यां मग्नायां तोयेषु युयुधे हरिः । पञ्चवर्षसहस्राणि बाहुयुद्धैर्निरन्तरम् ॥ यदा नैवाशकद्धन्तुं तौ विष्णुर्जगतां पतिः । परां चिन्तां तदावाप विधातापि भयात्ततः ॥ ततस्तावेव तं विष्णुमूचतुर्ब्बलदर्पितौ । पुनः पुनस्तौ गर्जन्तौ महामायाविमोहितौ ॥ तुष्टौ स्वस्त्वन्नियुद्धेन वरं वरय माधव ! । तवेष्टं संप्रदास्यावः सत्यमेतद्वराधुना ॥ तयोस्तद्वचनं श्रुत्वा भगवान् गरुडध्वजः । उवाच तौ युवां वध्यौ भवेतां मे महाबलौ । इति देहि वरं मह्यं दातव्यं यदि विद्यते ॥ तौ तदा प्राह युष्मत्तो योग्यो नौ शोभनो वधः । तत्रावां जहि नो यत्र तोयं सम्प्रति विद्यते ॥ तयोस्तद्वचनं श्रुत्वा माधवो जगतां पतिः । ब्रह्माणं माञ्च शीघ्रेण प्राहेदञ्चात्मसंज्ञया ॥ ब्रह्मशक्तिशिलां शीघ्रमुद्धृत्य धीयतां यथा । तत्र स्थित्वा महाधारे हनिष्यामि महाबलौ ॥ ततो ब्रह्मा ह्यहञ्चैव उद्दधार शिलान्तु ताम् ॥ तस्या मध्ये पूर्ब्बभागे ह्यहं पर्व्वतरूपधृक् । ऊर्द्ध्वे स्थित्वा शिलां भित्त्वा प्रविवेश रसातलम् ॥ ऐशान्यामभवत् कूर्म्मः पर्व्वतश्चाग्रहीत् शिलाम् । वायव्याञ्च तथानन्तो नैरृत्याञ्च सुरेश्वरी ॥ महामाया जगद्धात्री शैलरूपप्रधारिणी । आग्नेय्याञ्च स्वयं विष्णुरेकरूपेण संस्थितः ॥ ब्रह्मशक्तिशिलां गृह्णन् भगवान् परमेश्वरः । मध्ये ब्रह्मा त्वहञ्चैव वराहश्च तथापरः ॥ ततो वराहपृष्ठस्य चरमे जगतां पतिः । स्थित्वा शिलामवष्टभ्य ब्रह्मशक्तिमधोगताम् ॥ वामे स्वजघने यत्नादारोप्य शिरसी तयोः । जगदाधारभूतः स सर्व्वयत्नेन संयुतः ॥ सर्व्वैर्बलैः समाक्रम्य चिच्छेद स पृथक् पृथक् । मधुकैटभयोः सम्यक् वीरयोः पृथिवीमृते ॥ तस्य चाक्रम्य संस्थानाद्ब्रह्मशक्तिरधोगता । ध्रियमाणापि देवौघैर्यत्नादपि मुहुर्मुहुः ॥ ततस्तयोस्तु मृतयोः शरीरे जगतां पतिः । ब्रह्मशक्तिं समुद्धृत्य न्यधात्तस्यां प्रयत्नतः । उद्धृतायां पृथिव्यान्तु तयोर्म्मेदोविलेपनैः । सुदृढामकरोत् पृथ्वीं क्लेदितां तोयराशिभिः ॥ मेदोविलेपिता यस्माद् गीयते मेदिनीति सा । अद्यापि पृथिवी देवी देवमानुषराक्षसैः ॥” इति कालिकापुराणे ६१ अध्यायः ॥ (अनयोर्नामनिरुक्तिर्यथा, महाभारते । १२ । ३४७ । २४ — २६ । “सत्त्वस्थः परमेष्ठी स ततो भूतगणान् सृजन् । पूर्ब्बमेव च पद्मस्य पत्रे सूर्य्यांशुसप्रभे ॥ नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ । तावपश्यत् स भगवाननादिनिधनोऽच्युतः ॥ एकस्तत्राभवद्विन्दुर्म्मध्वाभो रुचिरप्रभः । स तामसो मधुर्जातस्तदा नारायणाज्ञया । कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः ॥”)