शब्दकल्पद्रुमः
मधुगायनः || पुं, (मधु गायतीति । गै + “ण्युट् च ।” ३ । १ । १४७ । इति ण्युट् । यद्वा, मधौ वसन्ते गायन इति सप्तमीसमासः ।) कोकिलः । इति राजनिर्घण्टः ॥