संस्कृत-शब्दकोशः

मधुजित् मधुत्रय

मधुतृण

वाचस्पत्यम्

मधुतृण ||‍ न० कर्म० । इक्षौ त्रिका० । पुंस्त्वं राजनि० ।


शब्दकल्पद्रुमः

मधुतृणं || क्ली (मधुरं तृणम् ।)
इक्षुः । इति त्रिकाण्डशेषः ॥ (गुणादयोऽस्य इक्षुशब्दे ज्ञातव्याः ॥)


शब्दकल्पद्रुमः

मधुतृणः || पुं, (मधुर्मधुरस्तृणः ।)
इक्षुः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, —
“महारसोऽसिपत्रः स्यान्मृत्युपुष्पो मधुतृणः । इक्षुर्वंशककान्तारभिरुपौण्ड्रादिभेदवान् ॥” इति वैद्यकरत्नमालायाम् ॥ “इक्षुर्दीर्घच्छदः प्रोक्तस्तथा भूरिरसोऽपि च । गुडमूलोऽसिपत्रश्च तथा मधुतृणः स्मृतः ॥” इति च भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)



Correction: