वाचस्पत्यम्
मधुदूत || पु० मधोर्बसन्तस्य दूत इवाग्रसरत्वात् । १ आम्रवृक्षे त्रिका० २ पाटलायां स्त्री ङीप् भावप्र० ।
शब्दकल्पद्रुमः
मधुदूतः || पुं, (मधोर्वसन्तस्य दूत इव । वसन्ता- गमनात् प्रागस्य मुकुलोद्गमदर्शनात् तथात्वम् ।)
आम्रवृक्षः । इति त्रिकाण्डशेषः ॥ (तथास्य पर्य्यायः । “आम्रः प्रोक्तो रसालश्च सहकारोऽतिसौरभः । कामाङ्गो मधुदूतश्च माकन्दः पिकवल्लभः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)