शब्दकल्पद्रुमः
मधुमथनः || पुं, (मधुं तन्नामानं दैत्यं मथ्नातीति । मन्थ + ल्यु ।)
विष्णुः । इति हलायुधः ॥ (यथा, भागवते । ६ । ९ । ३९ । “सर्व्वात्मनि निरतनिर्वृ तमनसः कथमुह वा एते मधुमथन ! पुनः स्वार्थकुशला ह्यात्मप्रिय- सुहृदः साधवस्तच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्य्यावर्त्तः ॥”)