वाचस्पत्यम्
मधुयष्टिका || स्त्री मधुः मधुरा यष्टिरिव इवार्थे कन् । यष्टिमधौ अमरः ।
शब्दकल्पद्रुमः
मधुयष्टिका || स्त्री (मधुर्मधुरा यष्टिः । ततः कन् टाप् ।)
यष्टिमधु । तत्पर्य्यायः । मधुकम् २ क्लीतकम् ३ यष्टिमधुका ४ । इत्यमरः । २ । ४ । १०९ ॥ मधुयष्टी ५ । इति भरतः ॥ (तथास्याः पर्य्यायान्तरम् । “यष्ट्याह्वं मधुकं यष्टि क्लीतकं मधुयष्टिका । यष्टिमधु स्थले जाता जलजातिरसा पुरा ॥” इति वैद्यकरत्नमालायाम् ॥)