वाचस्पत्यम्
मधुरजम्बीर || पु० कर्म० । (कमलालेवु) जम्बीरभेदे राजनि० ।
शब्दकल्पद्रुमः
मधुरजम्बीरः || पुं, (मधुरो जम्बीरः । नित्यकर्म्म- धारयः ।)
मधुजम्बीरः । तत्पर्य्यायः । मधु- जम्भः २ मधुजम्भलः ३ रसद्रावी ४ शर्क्करकः ५ पित्तद्रावी ६ । अस्य गुणाः । मधुरत्वम् । शिशिरत्वम् । कफपित्तशोफश्रमनाशित्वञ्च । इति राजनिर्घण्टः ॥