शब्दकल्पद्रुमः
मधुरसा || स्त्री (मधुर्मधुरो रसो यस्याः ।)
मूर्व्वा । इत्यमरः । २ । ४ । ८३ ॥ (अस्याः पर्य्यायो यथा, “तेजनी पिलुनी देवी तिक्तवल्ली पृथक्त्वचा । मधुश्रेणी मधुरसा मूर्व्वा निर्द्दहनीति च ॥” इति वैद्यकरत्नमालायाम् ॥ “मूर्व्वा मधुरसा देवी मोरटा तेजनी स्रुवा । मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
द्राक्षा ॥ (तत्पर्य्यायो यथा, —
“द्राक्षा स्वादुफला प्रोक्ता तथा मधुरसापि च । मृद्वीका हारहूरा च गोस्तनी चापि कीर्त्तिता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
दुग्धिका । इति मेदिनी । से, ६० ॥ गम्भारी । इति भावप्रकाशः ॥