संस्कृत-शब्दकोशः

मधुरोदक मधुलग्न

मधुल

शब्दकल्पद्रुमः

मधुलं || क्ली (मधु पुष्परसादिकं लाति स्वकारणत्वेन गृह्णातीति । ला + कः ।)
मद्यम् । इति शब्द- चन्द्रिका ॥ (निर्व्विषीकत्र्यां मधुविद्यायां स्त्री । यथा, ऋग्वेदे । १ । १९१ । १० । “सोचिन्नुनमरातिनो वयं मरामारे अस्य योजनं हरिष्ठामधुत्वामधुला चकार ॥” “हे विष ! त्वा त्वां मधु अमृतं चकार विषस्य विषभावं दूरेऽपनोद्यामृतीचकारेति एषैव मधुला मधुदात्री निर्विषीकर्त्री मधुविद्या यदे- तदादित्यस्य मण्डले विषयोजनं तेन चामृती- करणं यदस्ति एषा मधुविद्या ॥” इति तद्भाष्ये सायनः ॥)



Correction: