वाचस्पत्यम्
मधु(धू)लिका || स्त्री मधु माधुर्य्यं साति सा—क पृषो० वा दीर्घः संज्ञायां कन् अत इत्त्वम् राजिकायां (राइसर्षा) राजनि० ।
शब्दकल्पद्रुमः
मधुलिका || स्त्री (मधुल + संज्ञायां कन् । टाप् अत इत्वञ्च ।)
राजिका । इति राजनिर्घण्टः ॥ (विवृतिरस्या राजिका शब्दे ज्ञातव्या ॥ स्कन्धा- नुचरमातृगणविशेषः । यथा, महाभारते । ९ । ४६ । १९ । “पृथुवक्त्रा मधुलिका मधुकुम्भा तथैव च ॥”)