वाचस्पत्यम्
मधुवन || न० मधुदैत्याधिष्ठितं वनम् शा० त० । १ मथुराक्षेत्रस्थे वनभेदे किष्किन्धास्थे मधुप्रचुरे २ वनभेदे च ।
शब्दकल्पद्रुमः
मधुवनं || क्ली (मधुना तन्नाम्ना दैत्येन कृतं वनम् । मध्यपदलोपी कर्म्मधारयः ।)
मथुराया वनविशेषः । यथा, श्रीभागवते ४ । ८ । ४२ । “तत्तात ! गच्छ भद्रं ते यमुनायास्तटं शुचि । पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥” (मधुप्रधानं वनमिति ।)
किस्किन्धायां सुग्री- वस्य वनविशेषः । इति रामायणे किस्किन्धा- काण्डम् ॥ (यथा, महाभारते । ३ । २८१ । २७ । “वालिना रक्षितं यत्तत् स्फीतं मधुवनं महत् । त्वया च प्लवगश्रेष्ठ ! तद्भुङ्क्ते पवनात्मजः ॥”)
शब्दकल्पद्रुमः
मधुवनः || पुं, (मधौ वनति शब्दायते इति । वन + अच् ।)
कोकिलः । इति शब्दचन्द्रिका ॥