संस्कृत-शब्दकोशः

मधुवीज मधुव्रत

मधुवीजपूर

वाचस्पत्यम्

मधु(बी)वीजपूर ||‍ पु० कर्म० । मधुकर्कटिकायाम् राजनि० ।


शब्दकल्पद्रुमः

मधुवीजपूरः || पुं, (मधूनां मधुपूर्णानां वीजानां पूरः समूहो यत्र ।)
मधुकर्कटिका । मीठा बिजौरा इति हिन्दी भाषा । तत्पर्य्यायः । मधुपर्णी २ मधुरकर्कटी ३ मधुरवल्ली ४ मधु- कर्कटी ५ मधुरफला ६ महाफला ७ वर्द्ध- माना ८ । अस्य गुणाः । मधुरत्वम् । शिशि- रत्वम् । दाहनाशित्वम् । त्रिदोषशमनत्वम् । रुच्यत्वम् । पथ्यत्वम् । गुरुत्वम् । दुर्ज्जरत्वञ्च । इति राजनिर्घण्टः ॥



Correction: